________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
भूमौ विवादयेत् क्षिप्रमकालेऽपि वृहस्पतिः” इति । कात्यायनोऽपि,
"धेनावनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा । न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥ कन्याया दूषणे स्तेये कलहे माहसे विधौ ।
उपधौ कूटसाक्ष्ये च सद्यएव विवादयेत्” इति ॥ उपधिर्भयादिवशात् प्राप्तं कार्य्यम् । उत्तरस्य भेदानाह नारदः,
"मिथ्या सम्प्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा ।
प्रान्यायश्चोत्तराः प्रोकाश्चत्वारः शासवेदिभिः” इति॥ मिथ्यादौनां स्वरूपमाह वृहस्पतिः,
"अभियुक्तोऽभियोगस्य यदि कुर्यात्तु निलवम् । मिथ्या तत्तु विजानौयादुत्तरं व्यवहारतः ॥ श्रुत्वाऽभियोगं प्रत्यर्थों यदि तत् प्रतिपद्यते। मा तु सम्प्रतिपत्तिस्तु शास्त्रविनिरुदाहृता ॥ अर्थिनाऽभिहितो योऽर्थः प्रत्यर्यो यदि तन्तथा । प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत् ॥ प्राचारेणावसन्नोऽपि पुनर्लेखयते यदि।
स विनेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते” इति ॥ प्रजापतिरपि,
“यावदावेदितं किञ्चित् मत्सम्बन्धमिहार्थिना ।
नावत्सर्वममम्भूत मिति मिथ्योत्तरं स्मृतम् ॥ * इत्यमेव पाठः सर्वत्र । मम तु, तावत् सब्बेमसङ्गत,-इति पाठः प्रतिभाति ।
For Private And Personal Use Only