SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ www. kobatirth.org पराशर माधवः पौडितः स्वयमायातः शास्त्रेणार्थी यदा भवेत् । प्राद्धिवाकस्तु तं पृच्छेत् पुरुषो वा शनैः शनैः” - इति । Acharya Shri Kailassagarsuri Gyanmandir पृष्टश्च कार्य्यं यथावदावेदयेदित्याह याज्ञवल्क्यः, " स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् " - इति । यदि केनचिन्निमित्तेन स नावेदयेत् तदा स व्यवहारो न बलात् कारयितव्य इत्यभिप्रेत्य चेदित्युक्तम् । श्रावेदनकाले मखादयोवर्जनीया दूत्याह उशना, - * सम्बन्धिकोऽपि वा - इति श० । + प्रवर्त्तते इति का० । - “ससखोऽनुत्तरीयो वा मुक्तकच्छः सहासनः । वामहस्तेन वा स्रग्वौ वदन् दण्डमवाप्नुयात् " - इति । श्रर्थिन: प्रतिनिधिमभ्युपगच्छति कात्यायनः, - “श्रर्थिना मन्नियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यथार्थं विवदते तयोर्जयपराजयौ ” - इति । अन्तरेणापि नियोगं पित्रादयो विवादं कुर्युरित्याद पितामहः, - “पिता माता सुहृद्वाऽपि बन्धुः सम्बन्धिनोऽपि वा * । यदि कुर्युरुपस्थानं वादं तत्र प्रवर्त्तयेत् ॥ यः कश्चित् कारयेत्किञ्चित् नियोगाद्येन केनचित् । तत्तेनेव कृतं ज्ञेयमनिवत्यं हि तत् स्मृतम्” इति । उक्तेभ्यो व्यतिरिक्तस्य विवादञ्च निषेधति नारदः, - For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy