________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
प्रतिष्ठिता पुरे ग्रामे चला नामाप्रतिष्ठिता।
मुद्रिताऽध्यक्षमंयुक्ता राजयुक्रा च शास्त्रिता"-इति राजग्रहसमीपवर्तिनः सभास्थानान्मुख्यादन्यान्यमुख्यानि थामान्याह भृगुः,
“दश स्थानानि वादानां पञ्च चैवाब्रवौद्भगः । निर्णयं येन गच्छन्ति विवादं प्राप्य वादिनः ॥ भारण्यास्तु खकैः कुर्यु: मार्थिकाः मार्थिकैस्तथा। सैनिकाः सैनिकैरेव ग्रामेऽप्युभयवामिभिः ॥ उभयानुमतञ्चैव म्यते स्थानमौप्मिता । कुलिकाः मार्थमुख्याश्च पुरग्रामनिवासिनः । ग्रामपौरगणश्रेण्यश्चातुर्विद्यश्च वर्गिणः ।
कुलानि कुलिकाश्चैव नियुक्ताः नृपतिस्तथा"-इति । खरारण्यकैः । ग्रामेऽपौत्यादि शब्दात् ये ग्रामे अरण्यादौ च निवनान्त, नेऽशुभयवासिभिः ग्रामवामिभिररण्यवासिभिश्व निर्णयं कुर्युः, उभयव्यवहाराभिज्ञत्वात्तेषाम् । कुलिकाः कुलश्रेष्टिनः । सार्थः ग्रामयात्रादौ मिलितो जनसङ्खः । मुख्याः ग्रामण्यादयः । पुरं मुख्यं नगरं, तस्मादर्वाचीनो ग्रामः । पुरग्रामनिवासिना भेदः। कुलिकादीनि पञ्च स्थानानि। तानि चारण्यकादिजनविशेषाणमेव । यामाकारेणावस्थितजनविवादे समोपग्रामनिवामिभिः निर्णयः । • 'सार्थ' स्थाने 'साई'-इति पाठः शा• पुस्तके सर्वत्र ।
स्थानमौक्षितम्, इति शा० । + ये तु,-इत्येतावन्माचं शा० पुस्तके। ६ बत्र, 'इति'-इति भवितुं युक्तम् ।
For Private And Personal Use Only