________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३४
पराशरमाधवः ।
य॑न्तो जपाद्यभ्यासा द्रष्टव्यः ।
यत्तु क्वचिज्जपादौनामल्पसङ्ख्याश्रवणं, तदन्पदोषविषयतया व्यवस्थापनौयम् । एवञ्च मति न क्वापि विसंवादः ।
अयञ्च व्याधिप्रतीकारन्यायः सर्वेष्वपि अनिष्टेषु प्रारब्धफलेषु कर्मसु योजनौयः । यदि जपादौनां प्रायश्चित्तत्वमङ्गौहत्य प्रारम्धकर्मनिवृत्तिरभ्युपेयते, यदि वा तदनङ्गीकारेण फलमाचप्रतिबन्धः, सर्वथाऽपि विहिते जपादौ विश्रम्भेण प्रवृत्तिः।।
यदा भोगेकनिवर्त्यत्वशङ्कायुक्नेय्वपि प्रारब्धफलेवीदृशः प्रतीकारविश्रम्भः, तदाऽनारब्धफलेषु मञ्चितेषु कर्मसु प्रायश्चित्तप्रवृत्तिविश्रम्भोऽस्तौति किमु वक्रव्यम् । तस्मात्, यथाकेषु प्रायश्चित्तेषु निःमन्दिग्धैः प्रवर्त्तितव्यमित्यशेषमतिमङ्गलम् ।
तदेवमयं भगवान् पराभराचार्यः काण्डद्दयेन व्यवहारसूचनसहितमाचारप्रायश्चित्तप्रपञ्चमभिधाय शास्त्रमुपसंहरति,
एतत् पाराशरं शास्त्रं श्लोकानां शतपञ्चकम् ॥८॥ दिनवत्या* समायुक्तं धर्मशास्त्रस्य सङ्ग्रहः । इति ।
पराशरेण कस्यचिदुपपुराणस्यापि निर्मितत्वात् तस्य च ज्ञानप्रधानत्वात् तद्व्यवच्छेत्तुमेतदित्युकम्। अथातो हिमशैलाये, इत्यारभ्य प्रणौता द्वादशाध्यायात्मको ग्रन्थमन्दर्भः प्रकृतत्वादेतच्छब्देन परामृश्यते। अस्य शास्त्रस्य कलिधर्मविषये प्रामाण्यातिपयं पूर्वानमनुस्मारयितुं पराशरसम्बन्धोपवर्णनम् । शास्त्रशब्दोऽत्र विधायक
* टनवत्या,-इति मु० ।
For Private And Personal Use Only