________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[१२० ।
वस्त्रापहारौ श्वित्रौ स्यात् पश्चाश्वापहारकः । अन्धो दौपापहारौ स्थात् काणो निर्वापको भवेत् ॥ दरिद्रः परवित्तनः उन्मत्तश्चाश्वहस्तिनः । परेव तथा ज्ञेयः सर्बयानापहारकः ॥ अन्धश्च जायते लोके गां हत्वा च नराधमः । वस्त्रभोज्यापहर्तारौ तथा ननबुभुक्षितौ ।
रत्नापहारी भवति तथा कुष्ठौ नराधमः" इति ॥ वायुपुराणे,
"वातव्याधियतः स्तेयौ तथा कुष्ठौ नरो भवेत् । ब्राह्मणस्वर्णहारी च प्रमेही जायते नरः ॥ प्रविन्नपाणिपादः स्यादा हरेद्योरमादिकम् । अन्नचौरो भवेद्यस्तु सोऽकस्माज्जायते कृशः ॥
खरोपघाती वाक्यञ्च हत्वा मर्त्यः प्रजायते"-दति ॥ उमामहेश्वरसंवादे,
"धान्यचौरस्तु होनाङ्गस्तणहर्ता तु वा पुनः । परद्रव्यापहारी च मृत्यानां वृत्तिजीवकः ॥ खलं क्षेत्रं ग्टहं वाऽपि परद्रव्यं हरन्ति ये । सुवर्णमणिमुक्रानि वस्त्राण्याभरणानि च ॥ पासनानि विचित्राणि धनधान्यमुपस्करम् । ये हरन्ति नरा नित्यं परद्रव्याणि मोहिताः ॥ इहलोकगतानाञ्च तेषामेष विधिः स्मृतः । ननादौनाः बुधर्ताश्च कुचला दुःखिताः सदा ॥
For Private And Personal Use Only