SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १२ च० ।] प्रायश्चितकाण्डम् | " जातिभ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया । चरेत् सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया" - इति । श्रत्र, ब्राह्मणस्य रुजः करणे प्रायश्चित्तमेकादशाध्यायेऽभिहितम् । पशुमैथुने दशमाध्यायेऽभिहितम् । Acharya Shri Kailassagarsuri Gyanmandir जातिभ्रंशकरानन्तरं मङ्करीकरणान्यनुक्रान्तवान् विष्णुः । " ग्राम्यारण्यानां पशूनां हिंसा मङ्करीकरणम्” - इति । तत्र साधारणं प्रायश्चित्तं सएवाह, - “सङ्करीकरणं कृत्वा मासमश्रीत यावकम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तन्तु कारयेत्” - इति । प्रतिपदन्तु षष्ठाध्यायेऽभिहितम् । सङ्करीकरणानन्तरमपाचीकरणमनुक्रान्तवान् विष्णुः । " निन्दितेभ्यो धनादानं वाणिज्यं कृषिजीवनमसत्यभाषणं शूद्रसेवनमित्यपाचीकरणम्” - इति । तस्य च साधारणं प्रायश्चित्तं मनुराह - “अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुद्ध्यति । शीतकृच्छ्रेण वा शुद्धिर्महासान्तपनेन वा " - इति । अपाचीकरणानन्तरं मलिनीकरणमनुक्रान्तवान् विष्णुः । “कृमिकीटघातनं मद्यानुगतभोजनमिति मलावहानि” – इति । तत्र साधारणं प्रायश्चित्तं सएवाह, - "मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं विशोधनम् " - इति । अथ प्रकीर्णकप्रायश्चित्तविशेषोऽभिधीयते । शरणागतत्यागे मनुराह, 56 For Private And Personal Use Only ४४१
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy