________________
Shri Mahavir Jain Aradhana Kendra
४३६
www. kobatirth.org
पराशर माधवः ।
**
पाकयज्ञविधानेन, - इति मु० । + शमित्यृचा, - इति मु• ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[१२ ०
व्रतलोपिनोऽवकीर्णिव्रतं याज्ञवल्क्य श्राह “श्रवकीर्णी भवेद्गत्वा ब्रह्मचारी तु योषितम् । गर्दभं पशुमालभ्य नैऋतं स विशुद्ध्यति” - इति ॥ मनुरपि -
" श्रवकीर्णौ तु कालेन गर्दभेन चतुष्पथे । स्थालीपाक विधानेन * यजेत निर्ऋतिं निशि ॥ हुलाऽग्नौ विधिवद्धोममन्ततश्च समित्यृचा | | न्द्रगुरु जुयात् सर्पिषाऽऽतः ॥ एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारान् चरेद् भैक्षं स्वकर्म परिकीर्त्तयन् ॥ तेभ्यो लब्धेन भैक्षेण वर्त्तयन्नेककालिकम् । उपस्पृशंस्त्रिषवणमन्देन स विश्ऽद्ध्यति”---इति । वसिष्ठोऽपि । “ब्रह्मचारौ चेत् स्त्रियमुपेयादरण्ये चतुष्पथे लौकिकेऽनौ रचोदैवतं गर्दभं पशुमालभेत । नैऋतं वा चरुं निर्वपेत् । तस्य जुहुयात् कामाय स्वाहा कामकामाय स्वाहा रक्षोदेवताभ्यः स्वाहा' - दूति । तत्र श्रोत्रियस्य पशुरश्रोत्रियस्य चरुरिति द्रष्टव्यम्। शङ्खस्तु वर्णभेदेन व्रतविशेषमाह । “गुप्तायां वैश्यायामवकौर्णो संवत्सरं चिषवणमनुतिष्ठेत् चत्रियायां द्वे वर्षे ब्रह्मण्यां त्रीणि वर्षाणि " - दूति । यदप्यङ्गिरसोक्रम्, - "अवकीर्णिनिमित्तन्तु ब्रह्महत्याव्रतं चरेत् ।
।