________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[१२ प.।
मशिखं पवनं कृत्वा व्रतं कुर्य्यात् समाहितः ॥ एकविंशतिरात्रञ्च पिवेत् प्रसूतियावकम् । हविषा भोजयेच्चैव ब्राह्मणान् सप्त पञ्च च ॥
ततो यावकशद्धस्य तस्थोपनयनं स्मृतम्” इति । तत् मनुसमानविषयम् । यस्थ पित्रादयोऽप्यनुपनौताः, तस्थापस्तम्बोक्तं द्रष्टव्यम् । “यस्य पिता पितामहदत्यनुपनौतौ स्यातां ते ब्रह्मघ्नसंस्तताः । तेषामभ्यागमनं भोजनं विवाहमिति वर्जयेत् । तेषामिच्छतां प्रायश्चित्तं, यथा प्रथमेऽतिक्रमे ऋतुरेवं मंवत्सरः । अथोपनयनम् । ततः संवत्सरमुदकोपस्पर्शनं प्रतिपुरुष संख्याय संवत्मरान् यावन्तोऽनुपेताः स्युः । सप्तभिः पावमानौभिः यदन्ति यच्च दूरकइत्येताभिर्यजु:पवित्रेण मामपवित्रेणागिरमेनेति। अथवा व्याहतिभिरेव । प्रथाध्यायः । यस्य प्रपितामहादेर्नानुस्मयंत उपनयनं, ते श्मशानसंस्तुताः । तेषामभ्यागमनं भोजनं विवाहमिति वर्जयेत् । तेषामिच्छतां प्रायश्चित्तम्। द्वादश वर्षाणि विद्यकं ब्रह्मचर्य चरेदथोपनयनं तत उदकोपस्पर्शनम्” इति । भूतकाध्ययनाध्यापनयोहरीत श्राह,
"भृतकाध्यापनं कृत्वा भूतकाध्यापितश्च यः ।
अनुयोगप्रदानेन चौन् पक्षांस्तु पयः पिवेत्” इति । द्रुमादिहिंसायां मनुराह,
“फलदानान्तु वृक्षाणां छेदने जप्यमृक्शतम् । गुल्मवलौलतानां च पुष्पितानां च वीरुधाम् । कृष्टजानामौषधीनां जातानां च स्वयं वने ॥
For Private And Personal Use Only