________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१२ ब० ।]
प्रायवित्तकाण्डम् ।
गोकुलेषु वसेञ्चैव ग्रामेषु नगरेषु च ॥६७॥ तपोवनेषु तीर्थेषु नदीप्रश्रवणेषु च । इति ।
Acharya Shri Kailassagarsuri Gyanmandir
बहूनां गवां ग्रामे स्थापयितुमशक्यत्वेनारण्ये स्थापनाय कल्पि - तो ब्रजप्रदेशो गोकुलम् । यत्र व्याघ्रादिभयात् ग्रामाद्वहिर्मिवासीशक्यः, तत्र ग्रामे नगरे वा प्रविश्य गोशाला देवताऽऽयतनादौ पुण्यप्रदेशे निवसेत् । श्रसति व्याघ्रादिभ्यो भये तपोवनादिषु निवसेत् । नदौप्रश्रवणेभ्योऽन्यानि तीर्थानि पम्पासरोवरादीनि । न केवलं भिचाग्टहेष्वेव पापप्रख्यापनं, किन्तु निवासस्थानेष्वपौत्याह-
एतेषु ख्यापयन्नेनः पुण्यं गत्वा तु सागरम् ॥६८॥ दशयोजनविस्तौर्णं शतयोजनमायतम् ॥ रामचन्द्रसमादिष्टं नलसञ्चयसञ्चितम् ॥ ६८ ॥ सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति । इति ।
I
सेतुदर्शनानन्तरं कर्त्तव्यमाह -
३८७
यथोक्तप्रकारेण पापप्रख्यापनपुरःसरं यात्रां कृत्वा मेतौ दृष्टे
सति तत्पापचयः ।
For Private And Personal Use Only
-
सेतुं दृष्ट्वा विशुद्धात्मा त्ववगाहेत सागरम् ॥७०॥ इति ॥
स्पष्टोऽर्थः ।
सेतुं द्रष्टुमशक्नुवतो भूपतेः पचान्तरमाह -
यजेत वाऽश्वमेधेन राजा तु पृथिवीपतिः ॥ इति ।