________________
Shri Mahavir Jain Aradhana Kendra
३६२
[१२ अ० ।
दुराचारत्वं विहिताननुष्ठानम् । यो विप्रो विहितं नानुतिष्ठति निषिद्धं चाचरति, तस्य गृहे भुक्त्वा दिनमेकमुपवसेत् । तदशौ प्रायश्चित्तान्तरमाह -
www. kobatirth.org
पराशर माधवः ।
-
सदाचारस्य विप्रस्य तथा वेदान्तवेदिनः । भुक्वाऽन्नं मुच्यते पापादहोरात्रान्तरान्नरः ॥ ६० ॥ इति ।
Acharya Shri Kailassagarsuri Gyanmandir
एकस्मिन् दिने सहदसकदा दुर्ब्राह्मणग्टहे भोजनेन कृतं यत्पापं, तस्य सदाचारविप्रग्टहे वेदान्तिग्टहे वा भोजनेन शुद्धिः । यद्वा, एकस्मिन् दिने सम्प्राप्तं यत् पिपीलिकाबधादिक्षुद्रपापजातं, तत् सर्वं शिष्टान्न भोजनेन शुद्ध्यति । पवित्रग्टहान्नभोजनेन पापविश्शुद्धिं बोधायनोऽप्याह
* कालोपहते, - इति मु० ।
“भैक्षाहारोऽग्निहोत्रिभ्यो मासेनैकेन शुद्ध्यति ।
यायावरवनस्येभ्यो दशभिः पञ्चभिर्दिनैः ॥
एकाक्षं धनिनोऽन्नेन दिनेनैकेन शुद्ध्यति । कपोतव्रतनिष्ठस्य पौत्वाऽपः शुद्ध्यति द्विजः " - इति ॥ मरणकालोपहते: * प्रायश्चित्तमाह, -
ऊच्छिष्टमधोच्छिष्टमन्तरिक्षमृतौ तथा । कृच्छ्रचयं प्रकुर्वीत आशौचमरणे तथा ॥ ६१ ॥ इति ।
मरणकाले वान्त्यादिकमूर्द्धाच्छिष्टं, मूत्रादिकमधोच्छिष्टम् । तयोरन्यतरत् यदा सम्पद्यते, तदा संस्कर्त्ता पुत्रादिर्धनादिना
For Private And Personal Use Only