SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः ।। [१२ स.। ___ मनोवाकायानां कर्माणि व्यापारा:, तेभ्योजातानि मनोवाक्कायकर्मजानि । न चैतेषां त्रयाणामत्याधिकभावेन व्यवस्थितानां साधारणोनिवृत्तिहेतुरयुक्त इति वाच्यम् । अत्यन्तावृत्तानां मानसानामौषदावृत्तानां वाचिकानां मककृतानां कायिकानां च समत्वसम्भवात् । दानस्य फलातिशयहेतुं पात्रविशेषमाह,कुटुम्बिने दरिद्राय श्रोत्रियाय विशेषतः । यदानं दीयते तस्मै तदानं शुभकारकम् ॥५०॥ इति । विशेषतइति पदं कुटुम्बित्वादिभिस्त्रिभिर्विशेषणे: प्रत्येकं सम्बध्यते । तथाच सति यस्य महत् कुटुम्बं, दारिद्यच्चाधिकं, बहुवेदपाठेन श्रोत्रियत्वमतिशयितं, तादृशाय दीयमानं भस्य फलातिशयस्य कारक भवति। परकीयभूम्यपहरणे प्रत्यवायाधिक्यमाह,वापीकूपतटाकाद्यैवाजपेयशतैरपि । गवां कोटिप्रदानेन भूमिहत्ता न शुध्यति ॥५१॥ इति। वाप्यादौनामेकैकस्य शुद्धिहेतुत्वं शास्त्रान्तरेषु प्रसिद्धम्। तादृशैबहुभिरपि न रायतीत्युक्तः प्रत्यवायाधिक्यं प्रतीयते । न च मात्मना उद्धिनास्तीत्येवंपरमिदं वचनं, तथा मति सुवर्णस्तेयधमेष म्भावितद्धिषु मध्ये तत्पाठानुपपत्तेः । अथ रजस्वला विषये कञ्चिदिशेषमाह,-- For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy