________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८५
पराशरमाधवः।
[१२ प.।
मन् परलोकविषयप्रधानत्वेन बुद्धिमान् भवति । तस्मात् न्यायोपामितेनैव याजनादिसाध्येन वित्तेनात्मरक्षणं कर्त्तव्यम् । यस्त्वन्यायेन चौ-पस्तापादिना लब्धेन वित्तेन जौवेत्, म देवे पिये च कर्मण्यनहीं भवति । यत्तु मनुवचनम्,-- ___ “वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
अप्यकार्यगतं कृत्वा भर्त्तव्या मनुरब्रवीत्”-इति ॥ तदापदिषयम् ।
अथ पुण्यवस्तुदर्शनं विधत्ते,अग्निचित् कपिला सत्री राजा भिक्षुर्महोदधिः । दृष्टमात्राः पुनन्त्येते तस्मात् पश्येत नित्यशः॥४६॥ इति।
दृष्टकाचयनसंस्कृतेनाग्निना थुकोऽग्निचित् । कपिला कपिलवर्ण धेनु: । सत्रौ दादशाहमारभ्य सहस्रप्सम्बत्मरपर्यन्तेषु सत्रेषु यस्य कस्यचित् सत्रस्यानुष्ठाता । शास्त्रीयेन मार्गेण प्रजानां पालकोराजा । चतुर्थाश्रमस्य यथावत् पालको भिचुः । महोदधिलवणसमुद्रादिः । एते दृष्टाः सन्तो द्रष्टार पुनन्ति । कुहिरण्यादयोद्रव्यविशेषाः पुनन्तोऽपि धारणादिकमपेक्षन्ते, न तु दर्शनमात्रेण पुनन्ति। अतस्तद्वैलक्षण्याय, दृष्टमात्राः, इत्युक्रम् ।
रक्षणमात्रेण शुद्धिप्रदान पदार्थानाह,अरणिं कृष्णमार्जारं चन्दनं सुमणिं तम्। तिलान् कृष्णाजिनं छागं गृहे चैतानि रक्षयेत्॥४७॥
इति ।
For Private And Personal Use Only