________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ दादशोऽध्यायः ।
श्राचारकाण्डे त्रिभिरध्यायैर्यावन्त श्राचाराः प्रतिपादिताः, प्रायश्चित्तकाण्डे चाष्टभिरध्यायैर्यानि प्रायश्चित्तान्यभिहितानि ; तेभ्योऽतिरिकानां परिशिष्टानां केषाश्चिदाचाराणां प्रायश्चित्तानाञ्च विधानायायं दादशाध्याय प्रारभ्यते । तत्रादौ दुःखनादिनिमित्तक स्नानमाह,
दःस्वप्न यदि पश्येत् तु वान्ते तु क्षरकर्मणि । मैथुने प्रेतधूमे च स्नानमेव विधीयते ॥१॥ इति ।
खप्नोद्विविधः, सुखप्नो दुःस्वप्नश्च, तत्र यो दर्शनकाले द्रष्टुः सुखं जनयन् भावि श्रेयश्च सूचयति, स सुस्वप्नः। तस्योदाहरणं छन्दोगाश्रामनन्ति,
'यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।
ममृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने'--इति। नद्वैपरौत्येन दर्शनकाले दुःखं जनयन् पुरुषस्य भावि चारिष्टं यः सूचयति, स दुःस्वप्नः । एतस्य तदाहरणं बढ़चाः पठन्ति । तत्रहि मरणसूचकानि जागरणारिष्टानि बहन्यभिधाय अन्ने प्रत्यक्षदर्शनानौत्युपमहत्यानन्तरं स्वप्नारिष्टान्येवमाम्नायन्ते । “अथ स्वप्नाः पुरुष कृष्णं कृषण दन्तं पश्यति म एनं हन्ति पराह एनं हन्ति मर्कट एनमाम्कन्दयत्याशु वायुरेनं प्रवहति सुवर्ण खादित्वाऽवगिरति मध्य नाति
For Private And Personal Use Only