________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
११०
[११ ० ।
महाव्याहृतिभिरभिमन्त्यापः पिवेत् । चत्रियोच्छिष्टाशने ब्राह्मणीरमपक्केन त्र्यहं चौरेण वर्त्तयेत् । वैश्योच्छिष्टभोजने त्रिरात्रोपोषितोब्राह्मी सुवर्चलां पिवेत् । शूद्रोच्छिष्टभोजने षड्रात्रमभोजनम्"इति । यमः, -
“भुक्का सह ब्राह्मणेन प्राजापत्येन शयति । भूभुजा सह भुक्तानं सप्तरात्रेण शुध्यति ॥ वैश्येन सह भुक्काऽन्नमतिकृच्छ्रेण शुद्ध्यति । शूद्रेण सह भुक्वाऽन्नं चान्द्रायणमथाचरेत्” - इति । श्रापस्तम्बः । “शूद्रोच्छिष्टभोजने तु सप्तरात्रमभोजनं स्त्री
णाञ्च”- इति । शङ्खः,—
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
"शूद्रोच्छिष्टाशने मासं पक्षमेकं तथा विशः ।
चचियस्य तु सप्ताहं ब्राह्मणानां तथा दिनम् " - इति ॥ बृहद्यमः,—
" माता वा भगिनी वाऽपि भार्य्या वाऽन्याश्च योषितः । न ताभिः सह भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् " - इति ॥
श्रापस्तम्बः,
“श्रन्यानां भुक्तशेषन्तु भचयित्वा द्विजातयः ।
चन्द्रं कृच्छ्रं तदर्द्धं तु ब्रह्मचत्रविशां विधिः” - इति ।
अङ्गिराः,
“चण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे ।
चान्द्रायणं चरेद्विप्रः चत्रः सान्तपनं चरेत् ॥ षड्रात्रश्च चिरात्रच वर्णयोरनुपूर्वशः " - इति ॥
For Private And Personal Use Only