SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१० पराशरमाधवः। [११ च्य। तत्र चान्द्रायणं पूर्वाचान्द्रायणेन समानविषयम् । प्राजापत्यन्तु तस्मिन्नेव विषये वेदविदं प्रत्यवगन्तव्यं, ब्राह्मण इति विशेषाभिधानात् । यच्चोकमगिरमा, "अभोज्यानान्तु सर्वेषां भुक्ता चानमुपस्कृतम् । अत्यावसायिनां भुक्का पादकृच्छ्रेण शुद्ध्यति"-इति ॥ यदपि विष्णुनोत्रम्। “गणगणक स्तेनगायनान्नानि भुक्का सप्तरात्रं पयसा वर्त्तत । तवान्नं चर्मकर्तुंचा। वार्द्धषिककदर्यदौक्षितबद्धनिगलाभिशस्तषण्डानाञ्च। पुंश्चलौदाम्भिकचिकित्सकलुब्धककूरोच्छिष्टभोजिनां च। श्रवौरास्त्रीवर्णकारसपत्नपतितानाञ्च। पिशुनानृतवादिक्रतुधर्मसोमविक्रयिणाञ्च । शैलूषतन्तुवा कृतघ्नरजकानां च । चर्मकारनिषादरावतारिवैण शस्त्रविक्रयिणाच। श्वजौविशौण्डिकतैलिकचेलनिर्णजकानाञ्च । रजखलामहोपपतिवेश्मनां च ।भ्रूणनावेक्षितमुदक्यासंस्पृष्टं पतत्रिणाऽवलीढं शना संस्पृष्टं गवाघ्रातञ्च। कामतः पादस्पृष्टमवचुतं च। मत्तकुद्धातराणां च । अनर्चितं वृथामांमञ्च पाठीनरोहितच राजिलसिंहतुण्डं च सशकवण सर्वमास्थमांसाशने त्रिराचमुपवसेत्” इति। तत्र त्रिरात्रोपवासोऽकामकृतमकझोजनविषयः । तस्मिन्नेव विषये मूलवचनोकब्रह्मकूर्वस्वशक्तं प्रति वेदितव्यः । * गणगणक, इति नास्ति मु• पुस्तके । + चर्मकारकृतं च,-इति मु । + तुनवाय,-इति मु०। $ वैद,-इति मु०। ॥ ब्रह्मकूर्चमशक्तं प्रति वेदितव्यम्, इति मु । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy