________________
Shri Mahavir Jain Aradhana Kendra
३००
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
तदौषदभ्यास विषयम् । यदपि मनुनोक्रम् - "भुक्त्वाऽतोऽन्यतमस्यान्नमत्या तु त्र्यहं चपेत् ।
मत्या भुक्का चरेत्कृच्छ्रं रेतोविएमूत्र मेवच" - इति ॥ अबुद्धिपूर्वे च्छर्दनासम्भवे त्र्यहोपवासो द्रष्टव्यः । गोमांसभक्षणस्वावृत्त्यनवृत्त्योर्व्यवस्थितं व्रतमाह प्रजापतिः, -
"चान्द्रायणचयं कुर्य्यादभचपशुभक्षणे ।
एकमेव मला चरेदाह प्रजापतिः " - इति ॥ मूलवचने चण्डालात्रमित्यनेन महापातक्यादौनामन्नमप्युपल
क्ष्यते । श्रतएव हारीतः, -
“यदन्नं प्रतिलोमस्य शूद्रजस्योत्तमस्त्रियाम् । महापातकिनश्चैव यदन्नं स्वीकृतघ्नयोः ॥
पतितस्यैव सगोत्राभर्तुरेवच । पाषण्डानाश्रितानाञ्च यतेश्चैव तथैवच ||
[११ ० ।
प्रतिच्छ्रं चरेका प्रमादाद् ब्राह्मणः सकृत् । मत्वा चान्द्रायणं कुर्य्यादामञ्चेदधमेवच ॥ तस्तभोजने वाऽपि त्रिगुणं सहभोजने । चतुर्गुणं तदुच्छिष्टे पानीये चार्द्धमेवच ॥
कृच्छ्राब्दपादमुदिष्टमभ्यासादन्नभोजने | | अभ्यासे तथा कुर्य्यात् त्रिंशत्कृच्छ्रं द्विजोत्तमः " - इति ॥
* तदभ्यासविषयम्, इति मु० ।
+ एवमेव इति मु० ।
†
क्वच्छ्रार्द्धपादमुद्दिष्टमभ्यासाज्ज्ञानमोजने, – इति मु० |
-
For Private And Personal Use Only