SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [११ च्य। कृच्छं मत्येति तत्राभिधानात् । यत्तु प्राजापत्यकृच्छं, तद्भक्षितोद्गारितविषयम् । अल्पव्रतत्वात् । ऋषिकृच्छं तु पूर्वाकचान्द्रायणदयेन समानविषयम् । अत्र सर्वत्र व्रतानुष्ठानानन्तरं पुनः संस्कारः कर्तव्यः । तदाह यमः, "असुरामद्यपाने च कृते गोभक्षणेऽपिवा । तप्तकृच्छ्रपरिक्लिष्टो मौजौहोमेन शुद्ध्यति" इति ॥ मनुरपि, "अज्ञानात् प्राश्य विषमूत्रं सुरामस्पृष्टमेवच । पुनः संस्कारमर्हन्ति त्रयोवर्णा द्विजातयः” इति ॥ विष्णुरपि । “विवराहग्रामकुक्कुटगोमांसभक्षणेषु सर्वेष्वेतेषु द्विजानां प्रायश्चित्तान्ते पुनः संस्कारं कुर्यात्” इति । तत्र विशेषमाह काश्यपः । “चौर्णान्ते प्राच्यामुदौयां वा दिमि* गत्वा यत्र ग्राम्यपशूनां शब्दो न श्रूयते तस्मिन् देशेऽग्निं प्रञ्चाल्य ब्रह्मासनमास्तौर्य प्राक् प्रणौतेन विधिना पुनः संस्कारमर्हति"इति । यच्च वृहद्यमेनोक्रम्, “वराहैकशफानाञ्च काककुक्कुटयोस्तथा । क्रव्यादानाञ्च सर्वेषामभक्ष्याये च कौर्तिताः ॥ मांसमूत्रपुरौषाणि प्राश्य गोमांममेवच । श्वगोमायुकपीनां च ततकच्छं विशोधनम् ॥ उपाय द्वादशाहानि कुभाण्डेर्जुहुयाद् एतम्” इति । * प्राचौमुदीचों वा दिशं,-इति मु. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy