________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० १०॥
प्रायश्चित्तकाण्डम् ।
२८५
मैवम्। परित्यागनिषेधस्यानुतापितप्रायश्चित्ताधिकारिस्त्रीविषयत्वात् । प्रायश्चित्तानि कारयेदित्यभिधानात् । श्वपाकोपहतानां परित्यागस्य तत्रैवाङ्गोकतत्वात्,
"चतस्रएव सन्यायाः पतने सत्यपि स्त्रियः । श्वपाकोपहता या तु भनी पिटपुत्रगा"-इति ॥ वमिष्ठोऽपि,
"चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या ।
पतिनौ तु विशेषण जुङ्गितोपगता च या"-इति ॥ जुङ्गितो जुगुपितः श्वपाकादिः। याज्ञवल्क्योऽपि,
"व्यभिचारादृतौ शद्धिगर्भ त्यागो विधीयते ।
गर्भभर्टबधादौ च तथा महति पातके"-इति ॥ यत्तु मनुनो कम्,
“विप्रदुष्टां स्त्रियं भर्ता निरन्ध्यादेकवेशानि” इति । न तत् मूलवचनेन ममानविषयम्। भर्दरहितस्त्रीविषयत्वान्मूलवचनस्य । मनुवाक्येतु निरन्ध्यादिति भर्टकर्त्तव्यताऽभिधानात् । तदुपरितनवाक्येन प्रायश्चित्ताभिधानाक्ष !
“यत् पुंसः परदारेषु तच्चैनां कारयेद्वतम् । मा चेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता । इच्छं चान्द्रायणं चैव तदस्याः पावनं स्मृतम्" इति । यदपि याज्ञवल्क्येनोक्रम्,
“हताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधःशय्यां वासयेत्यभिचारिणौम्" इति ।
For Private And Personal Use Only