________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० ब० ॥
प्रायश्चितकाण्डम् ।
पश्वन्तरेभ्योगोः प्रशस्तत्वात्तदभिगमनेऽधिकं प्रायश्चित्तमाह,गोगामौ च चिरात्रेण गामेकां ब्राह्मणो ददत् । इति ।
हातीति शेषः । एतच्च सकृद्गमने रेतःसेकात् प्राङ् निवृत्ती द्रष्टव्यम् । रेतःसेकान्ते तु सकृद्गमने सम्बर्त श्राह,
“नरो गोगमने कुर्यात् कृच्छं मान्तपनं तथा"-दति । श्रावृत्तौ जावालिराह,
“तप्तच्छन्तु गां गत्वा परदारांस्तथैवच ।
इतरेषां पशूनान्तु कृच्छ्रपादो विधीयते"-दति ॥ बहुदौरादिगुणवत्यां गवि श्रावृत्तौ चतुर्विमनिमते दर्शितम्,
“नरो गोगमनं कृत्वा चरेच्चान्द्रायणव्रतम्" इति । नचैव विषयेऽत्यन्ताभ्यासे विष्णुराह। “कुर्य्यात् परदारगमने गोव्रतं गोगमने च तिर्यग्योनावाकारोऽनु दिवा गोयाने सवासाः खानमाचरेत्" इति ।
वेदविदिप्रसम्वन्धिन्यां गवि गुणवत्यामत्यन्ताभ्यासे शङ्खलिखितावाहतुः। “तिर्यग्यो निषु गोवर्ज सचेलनातो यवसाहारं गोभ्योदद्यादोव्ववकीर्ण: संवत्मरं प्राजापत्यश्चरेत्” इति। यथोकविशेषणविशिष्टायां भवनस्थविप्रसम्बन्धिन्यां गवि गौतम आह । “मखिमयोनिसगोत्र शिष्यभार्यासु स्नुषायां गवि च गुरुतल्पसमः अवकीर्ण दूत्येके" इति। गोसंयुकशकटादिवाहनेऽवस्थाय स्त्रियं भुनानस्य यम पाह,
* स्त्रिया व्यवहारे,-इति मु. ।
For Private And Personal Use Only