________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.
प्रायश्चित्तकाण्डम् ।
२०७
ग्रासं वा यदि गृह्णीयात्तोयं वाऽपि पिवेद्यदि। पूर्व व्याध्युपसृष्टश्चेत् प्रायश्चित्तं न विद्यते ॥१२॥ __ यस्तु गौश्चिरं व्याधिपौड़ितोऽत्यन्तकृशश्चारणार्थं यथोक्तदण्डेनाभिहतः सन्पतितो मूर्छितो वाऽपि भवेत्, म पुनरुत्थाय कानिचित्पदानि गच्छेत्, तदा प्रहत्तः प्रत्यवायो नास्ति । अथोत्थातमशक्तस्तदाऽपि ढणे भक्षिते नास्ति प्रत्यवायः । भवयितुमको यदि जलं पिवेत्, तदाऽपि नास्ति प्रत्यवायः। उत्थानढणभक्षणजलपानान्यत्वा मूळनन्तरमेव मियेत चेत्, तदा प्रहर्ता प्रत्यवैतीत्यर्थादवगन्तव्यम्।
गोगर्भस्य बधे प्रायश्चित्तमाह,पिण्डस्थे पादमेकन्तु हौ पादा गर्भसम्मिते । पादानं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम् ॥ १३ ॥ इति ॥
चतस्रोगर्भावस्थाः, पिण्डः मम्मितोऽचेतनः सचेतनश्चेति । गर्भाशये पतितं वौयं कललवुडुदादिक्रमेणार्द्धमासे पिण्डभावमापद्यते। सएव माममात्रेण दार्थमापद्य सम्मित इत्युच्यते । सम्यमितः परिवतो दृढ़ौभूतः सम्मितः । स च सप्तमे मासि प्राणवायुसञ्चाररूपां चेतनामापद्यते । मासादूर्द्धमा सप्तमान्मासादचेतनः,--इत्युयते । तदुई पतितोसतो भवेत् । अत्र पिण्डस्थे गर्ने प्राजापत्यस्य पादमाचरेत्। सम्मितबधे अर्द्धवच्छ्रम् । अचेतनबधे पादत्रयम्। सचेतनस्य चतुर्थस्य बधे प्रायश्चित्तं वक्ष्यति ।
पादकृच्छ्रादीनां चतुर्णामङ्गभूतांश्चतरोवपनविशेषानाह,
For Private And Personal Use Only