________________
Shri Mahavir Jain Aradhana Kendra
का० । ]
www. kobatirth.org
प्रायवित्तकाण्डम् |
तदा तन्मरणनिमित्तं वहननियोजनं योक्त्रमित्युच्यते । हलादिवाहनं दमनादीनामुपलक्षणम् । श्रतएवापस्तम्बः, -
“दमने दामने रोधे संघाते चैव योजने ।
नस्ते सकलपाशैर्व्वी मृते पादोनमाचरेत्” - इति ॥ श्रभिचितवलीवर्द्धस्य वोढुं शिक्षणं दमनम् । दाम्ना पाशेन
सम्पादितो दामनः । रोधोगलनिरोधः । सङ्घातः समूहः पूर्वोक्ता पङ्क्तिः, तत्र योजनं बन्धनम् । नस्तः नासिकायां डोरप्रक्षेपः । सकलपाशा दूतरे सर्व्वे बन्धनविशेषाः ॥
बधनिमित्तस्य घातस्य स्वरूपमाह -
मत्तः प्रमत्त उन्मत्तश्चेतनो वाऽप्यचेतनः ॥ ८ ॥ कामाकामकृतक्रोधोदण्डैर्हन्यादथोपलैः । प्रहृता वा स्मृता वाऽपि तद्धेतुर्विनिपातने ॥ ८ ॥
*
Acharya Shri Kailassagarsuri Gyanmandir
मत्तोधनादिना दृतः । प्रमत्तो मद्यपानादिपरवशः । उन्मत्तो व्याध्यादिना विभ्रान्तः । चेतनो लोकव्यवहारादिचमः ? | अचेतनो मुग्धः । मारयिष्यामीति बुद्धिः कामः । व्यर्थचेष्टामात्रमकामः । ताभ्यामुत्पादितः क्रोधोयस्यासौ दण्डादिभिर्यदि हन्यात्, तदा मरणमन्तरेण केवलं प्रहृता स्यात् । तत्कामकृतः संप्रहारो घात
* पादलमपाशेन सन्ताड़िता, - इति मु० ।
+ हता वाऽपि स्मृता वापि तद्धि हेतुर्निपातने इति शा० ।
+ मद्यपानादिना व्यवशः, -इति शा० ।
$ लोकव्यवहारदक्षः, इति शा० ।
For Private And Personal Use Only
२०५