SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ पराशरमाधवः । [ . चित्तान्यवगन्तव्यानि । नन्वेतदगिरोवचनेन विरुद्दयते, अङ्गिरा हि मासयहळू गोव्रतत्वेनाभिधाय रोधादिबधेषु तत्पादादौनि विधत्ते, “पादं चरेत् रोधबधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनं स्थाचरेत् सर्व निपातने” इति । नायं दोषः। गुणवदगुणविषयत्वेनाङ्गिरःपराशरवचनयोर्व्यवस्थापनौयत्वात् । अन्यथा, अङ्गिरसः सम्बतपस्तंबाभ्यां सह विरोधः कथं परिट्रियेत । सम्वतः पक्षवच्छं गोबधव्रतमभिधायैतदाह, "प्रायश्चित्तस्य पादन्तु निरोधे व्रतमाचरेत् । द्वौ पादौ बन्धने चैव पादोनं योजने तथा ॥ पाषाणेलाष्टकैर्दण्डैस्तथा शस्त्रादिभिर्नरः। निपात्य संचरेत् सर्वं प्रायश्चित्तं विशुद्धये"-इति ॥ पापस्तम्बोऽपि दिनचतुष्ककृत्यं* पादत्वेन प्रत्येदमाह, “एकभकेन नकेन तथैवायाचितेन च। उपवासेन चैकेन पादच्छ्रः प्रकीर्तितः ।। एकपादश्चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनं स्थाञ्चरेत् सर्व निपातने" इति ॥ __ नम्वेवमपि पूर्वापरविरोधो दुष्परिहरः, पूर्वाध्याये ह्यकामकते षोड़शरात्राछोऽभिहितः, अत्र तु कामकृते रोधबधे चतरात्रीऽभिधौते। नायं दोषः। अत्र प्रामादिकस्य वालवत्मादिवधस्य प्रायश्चित्तमिति परिहरणीयत्वात् । एवं तर्हि चवरात्राष्टरात्र * दिन चतुष्टयकृतं,--इति शा० स० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy