SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । रुपस्करः । यद्यपि पूर्ववचने वेणु विकाराणं कटादौनां प्रोक्षणस्योकत्वात्तेनैव शूर्पशद्धिरभिहिता, तथापि तण्डुलफलौकरणदौ तल्लेपस्य लग्नत्वात् शयन्तराशङ्का भवति, तन्मा भूदिति पुनरिह ग्रहणम् । गणो गोण्यादिहेतुळल्कलविशेषः, तेन तद्विकाराः सर्वेऽपि विवक्षिताः। फलमाम्रादि । चर्म कृष्णाजिनादि। लणञ्च काष्ठञ्च हणकाष्ठम् । रज्जवः प्रसिद्धाः । अत्र फलशब्देन शाकमूलादौन्युपलक्ष्यन्ते। अतएव याज्ञवल्क्यः, “गाकरन्नुमूलफल वासोविदलचर्मणाम् । पात्राणाञ्चममानाञ्च वारिणा शुद्धिरिष्यते” इति ॥ तत्र वारिद्धिः प्रोक्षणं प्रक्षालनञ्च, तदुभयं यथायोगं द्रष्टव्यम् । अतएव मनुना धान्यं दृष्टान्तितम्, "चैलवच्चर्मणां शुद्धिर्वेदलानां तथैव च। पाकमूलफलानाञ्च धान्यवत् शुद्धिरिष्यते” इति ॥ काश्यप्योऽपि । “हणकाष्ठरज्जुम चर्मवेणुविदलफलपत्रमूलादीनां चैलवत् गौचं, मृद्दारुचर्मणञ्चात्यन्तोपहतानां त्यागः” इति । ब्रह्माण्डपुराणे "भवविण्मत्रशुक्रैस्तु दूषितञ्च मृदम्बुभिः । शोध्यादौ शोधनीयञ्च गोमूत्रधारवारिभिः ॥ रज्जवल्कलपत्राणाञ्चमसाणाञ्च चर्मणाम् । * शाकमूलफनादौनां,-इति प्रा । + मदैव हि, इति शा० । + क्षौरवारिभिः,--इति मु.। चिमसालावुधर्मशाम्, इति मु. ! For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy