________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११३ ]
सप्तमोऽध्यायः।
अन्नरमयोः शुद्धिः षष्ठाध्याये वर्णिता, सप्तमाध्यायेऽवशिष्टानां द्रयाणां शुद्धिं विवधुर्महाप्रकरणप्राप्तप्रायश्चित्तशकायुदामाय प्रतिजानौते,अथातो द्रव्यशुद्विस्तु पराशरवचो यथा। ___ अथावान्तरप्रकरणमारभ्यानरमशद्धिकथनानन्तरं यस्मादितरद्रव्यशर्बुिद्धिस्था ; यस्माच्चान्तरेण द्रव्यशद्धिं महाप्रकरणगतप्रायश्चित्तवतचर्याया नित्यकर्मादौनाञ्चानुष्ठानं निपुणं न भवति, ततस्तत्मागुण्यहेतुद्रव्यशद्धिरभिधीयते ॥
तत्र दोसुक्सवादौनामुच्छिष्टामेध्यादिदूषितानांशद्धिमार,दारवाणान्तु पात्राणां तक्षणात् शुद्धिरिष्यते ॥१॥
मूत्रपुरोषादिप्रदेशे चिरावस्थानेन दृढ़वामितोगन्धलेपोयदि मृज्जलप्रक्षालनेन नापगच्छेत्, तदा वास्यादिना दारवाणि तक्षणौयानि । तक्षणेनाप्यनपगमे परित्यागः । तदाह बौधायनः । "दारमयाणं पात्राणामुच्छिष्टसमारब्धानामवलेखनमुच्छिष्टलेपोपहतानां तक्षणम्(१)' । मूत्रपुरौषप्रभृतीनामन्पकालसंस्पर्श तु गन्धलेपयोरपनेतुं शक्यत्वात्तदपनयनपर्यन्तं मृजलाभ्यां प्रयत्नेन प्रक्षालनीयानि।
(१) समारब्धानां समालब्धानां, रलयोरभेदात् । समालम्भः स्पर्शः ।
15
For Private And Personal Use Only