SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । मनुरपि, “पक्षिजग्धं गवाघ्रातमवधूतमवक्षुतम् । दूषितं केशकोटेश्च मृत्क्षेपेण विशड्यति"-इति ॥ वस्त्रावधूननरेणुस्पृष्टमवधूतं, जुतोत्पन्नविन्दुस्पृष्टमवक्षुतम् । यत्तु गौतमेनोक्तम्। “नित्यमभोज्यं केशकौटावपन्नम्” इति । तत्केशकौटादिभिः सह पक्वविषयम् । __ केशकीटादिदूषितावशोधनप्रसङ्गेन बुद्धिस्थं भोजनकालोनं किञ्चिनियमविशेषमाह,भुञ्जानश्चैव यो विप्रः पादं हस्तेन संस्पृशेत् ॥ ६५ ॥ स्वमुच्छिष्टमसौ भुते यो भुङ्क्ते मुक्तभाजने । पादकास्थान भुञ्जीत पर्यङ्गस्थः स्थितोऽपि वा॥६६॥ श्वानचण्डालहक् चैव भोजनं परिवर्जयेत् वामहस्तेन पादसंपर्श सति स्वोच्छिष्टभोजने यावान् प्रत्यवायः, तावानेव भवति । वामहस्तेन पात्रमनालभ्य भोजनेऽपि तावानेव प्रत्यवायः । पौठे समुपविष्टः पद्भ्यां पादुके श्राक्रम्य न भुचौत । तथा पर्यङ्के स्थित्वा वोई स्थित्वा वा न भुञ्जीत । भोजनमध्ये श्वादिदर्शने भोजनमेव परित्यजेत् । पादुकास्थइत्येतावनिनासनगतादीनामप्युपलक्षणम् । अतएव व्यामः, * मत्प्रक्षेपेण शुध्यति, इति मु. । + भिन्नभाजने,-इति मु० । 14 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy