________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अ.]
प्रायश्चित्तकाण्डम् ।
विप्रवाक्यस्य प्रायश्चित्तप्रयोजकत्वं प्रतिपादयति,ब्राह्मणाजङ्गमं तीर्थ तीर्थभूता हि साधवः ॥६॥ तेषां वाक्योदकेनैव शुद्ध्यन्ति मलिनाजनाः। साधूनां तीर्थरूपत्वं शुद्धखरूपत्वात् । तथाच श्रूयते,_ “अग्निः शचित्रततमः शुचिर्विप्रः शुचिः कविः” इति ।
विशिष्टमातापिटजन्यत्वं ब्राह्मणत्वं, न केवलं तावतैव ब्राह्मणवाक्यस्य प्रशस्तत्वं, किन्त्वनेकदेवताप्रतिपादकानां वैदिकमन्त्राणां धारणया सर्वदेवतात्मकत्वेनापि तदाक्यं प्रशस्त मित्याह,-- ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः॥२॥ सर्बदेवमया* विप्रो न तद्दचनमन्यथा ॥
ब्रह्म वेदः, निरन्तरं तनिष्ठाः सन्तस्तदर्थं यथावद्र्वाणाब्राह्मणः, अतोवेदविवचनं देवता अनुमन्यन्ते । तस्य च सर्वदेवमयत्वं श्रूयते । “यावती देवतास्ताः सर्वावेदविवाह्मणे वमन्ति" इति। अङ्गिरा अपि,
"ब्राह्मणो देवताः सर्वाः म च सर्वस्य दैवतम्” इति । “यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति(१)"-दूति तौ
* सर्ववेदमयो,-इति शा।
(१) यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति छान्दोग्यअतिरेव मध्ये परित्यज्य पठितेति बोध्यम् ।
For Private And Personal Use Only