________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माधवाचार्येणेदमपि विचारितम् । तद्यथा। ब्रह्महत्याद्युत्पन्नं पापं हादशवार्षिकादिना व्रतेन नश्यतु । कम्मजन्यपापस्य कर्मणा नाशोपपत्तेः । अभक्ष्यभक्षणजनितन्तु पापं कथं नश्यति ? यावता भक्षितस्याभक्ष्यस्य मांसशोणितादिरूपेण परिणतस्य शरीरेऽवस्थानात् । अपवित्रपदार्थपरिणामरूपस्य शरीरस्य कथं प्रायश्चित्तानुष्ठानेन पवित्रता एक्यते वक्तमित्येवमाशय सिद्धान्तितम्। अतएवाभक्ष्यप्रक्षणप्रायश्चित्ते शपुष्पोप्रतीनां क्वाथस्य पानं विहितम् । तथाच तत्तत्क्वाथपानेनाभक्ष्यद्रव्यपरिणामभूतमांसशोणि-- तादेः संशोधनमुपपद्यते । पवित्रतत्तद्रव्यक्वाथादीनां मांसशोणितादिरूपेण परिणतानां प्रदुशमांसशोणितादिशोधकत्वोपपत्तेरित्यादिकं विचारितम् । एतेनाभक्ष्यभक्षणप्रायश्चित्तं यादिवतादिकमेव करणौयं न तत्रानुकल्पधेनुदानादिकं कर्तुमुचितमिति माधवाचार्याणामभिप्रायः प्रतीयते ।
सा खल्वियं पराशरस्मृतिः कलौ युगे प्रणौतेति तत एवोपलभ्यते । सा चेयं प्रायः सासामेव स्मृतीनां परभाविनी। पराशरं एच्छता वेदव्यासेन खल्वेवमुक्तम् ।
श्रुता मे मानवाधा वाशिष्ठाः काश्यपास्तथा । गार्गेया गोतमौयाश्च तथाचौशनसाः श्रुताः । अत्रेविष्योश्च संवर्ताहक्षादगिरसस्तथा । शातातपाच हारीतायाज्ञवल्कात्तथैव च । आपस्तम्बकृता धर्माः भवस्य लिखितस्य च ।
कात्यायन कृताश्चैव तथा प्राचेतसान्मुनेः । सदनेनैतासां स्मृतीनां परतो भगवतो ध्यासस्य प्रश्नः, तदुत्तररूपतया च पराशरस्थास्थाः स्मृतेरभिधानमिति स्परमवगम्यते । सेयं स्मृतिः पूर्वस्मतौनां सारसंग्रहभूतेसि प्रतीयते । अम्यां हि स्मृतौ क्वचित् स्मृत्यन्तरवाक्यमविकलमेवोक्तम् । यथा नशे मते प्रव्रजिते इत्यादि नारदस्मतिवाक्यं तथैवाभिहितम् । क्वचित्त्वंशतो विकलय्य स्मृत्यन्तरवाक्यमिहोपन्यस्तम् । यथा शुयेदिप्रो दशाहेन इत्यादि दक्षवाकां जातौ विप्रो दशाहेन इत्यंशतोविकलय्य पठितम् ।
For Private And Personal Use Only