________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
PREFACE. अवतरणिका |
Acharya Shri Kailassagarsuri Gyanmandir
1
पराशर स्मृतेर्माधवाचार्य्यकृता व्याख्या समीचीनोग्रन्थः । सेयं न परं पराशर स्मृतिव्याख्यानं किन्तु पराशरस्मृतिव्याख्याव्याजेनोपादेयः स्मृतिनिबन्धोऽयं विरचितो माधवाचार्येण । सोऽयं ग्रन्थो दाक्षिणात्ये प्रचरद्रूपः । सोऽयं महामहोपाध्यायर घुनन्दन भट्टाचार्य्यप्रभ्टतिभिः स्मृतिनिबन्धकर्त्तभिः प्रमाणतयोपन्यस्तः । तस्यैतस्य ग्रन्थराजस्यार्थ्यावर्त्ते विशेषतस्तु गौड़मण्डले विरलप्रचारं लुप्तप्रायताञ्चालय शास्त्रग्रन्थरक्षणदीक्षितैर्विद्यावारिधिभि रस्यातिकसमितिशोभाकरैः सभास्तारैस्तन्मुद्रणं स्थिरीकृत्य तच्छोधनादौ नियुक्तोऽयं जनः । मया तु यतमानेन यथामति एतस्य शोधनमकारि । ष्यद्यत्वेऽध्ययनाध्यापनयोरव्यवहृतत्वेन विरलप्रचारतया चास्यैकमपि पुस्तकं परिशुद्धं न लब्धम् । तथापि महता यायासेनास्य शुद्धता कथञ्चित् सम्पादिता । ग्रन्थार्थवैशद्याय टिप्पणमपि तेषु तेषु स्थानेषु विरच्य दत्तम् । तथापि च्छात्र याऽश्रुद्धिर्विपश्चितां प्रतिभास्यति सा तैरेव कृपया शोधनीया ।
यानि पुस्तकान्यवलम्ब्यैतस्य शोधनमकरवं तेषामिदानौमुल्लेखः क्रियते । एकं तावदस्यातिकसमाजादागतं मूलमात्रम् । द्वितीयमपि तत एवानीतमाचारप्रायवित्तकाण्डद्वयात्मकं व्याख्यासहितम् । तृतीयमपि तस्मादेव समाजात् संगृहीतं चचारकाण्डरूपं व्याख्यासहितमेव । चतुर्थं संस्कृतविद्यामन्दिरात् समासादितमाचारप्रायश्चित्तरूपकाण्डद्दयोपेतं सव्याख्यम् । पचमं शान्तिपुर निवासिपण्डित रामनाथ - तर्क रत्नात् प्राप्तं तादृशमेव । षष्ठं महदेशादानीतं त्रैलङ्गाक्षरमुद्रितं तथाविधमेव । तदेवमाचार - प्रायवित्तकाण्डयोः षट् पुस्तकान्युपलब्धानि । व्यवहारकाण्डस्य चैकं पुस्तकं पण्डित रामनाथ-तर्करत्नात् प्राप्तम् । द्वितीयं संस्कृत विद्यामन्दिरादधिगतम् । तृतीयं काशिकराजकीय संस्कृतपाठशालातः समानीतम् । तदेवं व्यवहारकाण्डस्य त्रीणि पुस्तकानि संगृहीतानि ।
For Private And Personal Use Only