________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५.,या का.
पराशरमाधवः।
नन, 'श्वेताश्वतरोपनिषदि मायाया:(१) प्रकृतित्वं परमात्मनस्तनियन्तत्वं, श्रूयते,
___ "मायान्तु प्रकृति विद्यान्मायिनन्तु महेश्वरम्" । इति'। नायं दोषः । मायायाः परमात्म-शक्रित्वेन शक्तिमतोऽप्यात्मनः प्रकृतित्वावश्यम्भावात्। दहन-शक्ति-युक्त श्री दाहकत्व व्यवहारदर्शनात् । श्रात्म-शक्तित्वञ्च मायायास्तस्यामेवोपनिषदि श्रुतम्,
"ते ध्यान-योगानुगताअपश्यन्
देवात्म-शक्रि स्व-गुणैर्निगूढाम्"। इति । वादरायणश्च प्रथमाध्यायस्योपान्याधिकरणे(२) माया-विशिष्टस्य ब्रह्मण: प्रकृतित्वं निमित्तञ्च, इत्युभयविध कारणत्वमुपपादयामास । कुलालवत् चेतनत्वात् निमित्तत्वं, घटे मृदइव कार्ये । तस्यानुगमात्
* दाहक,-इति मु• पुस्तके पाठः। । खकाय,-इति स० सा• पुस्तकयाः पाठः ।
(१) माया तु त्रिगुणात्मिका सदसद्भ्यामनिवाच्या विशुद्ध-सत्व-प्रधाना
भावरूपा। यत्रेदमुक्तम्। “चिटानन्दमय-ब्रह्म-प्रतिविम्ब-समन्विता । तमोरजः-सत्त्व-गुणा प्रकृतिविविधा च सा । सत्व-शुद्यविशुद्धिभ्यां
मायाऽविद्ये च ते मते"-इति । (२) “प्रकृतिश्च प्रतिज्ञा-दृशान्तानुपरोधात्” (शा० ११० ४मा० २३ सू.)
इत्यस्मिन् अधिकरणे । प्रकृतिश्च उपादानकारणच ब्रह्माभ्युपगन्तव्यं निमित्त-कारणच्चाएक-विज्ञानेन सर्व-विज्ञान-प्रतिक्षायाः मद्घटादिदृष्टान्तस्य च अनपरोधोपपत्तेरिति सूत्रार्थः। कारणे हि विज्ञाते कार्य विज्ञातं भवति कारणातिरिक्तस्य वस्तुसतः कार्य्यस्याभावात् । विवर्त-वादाभ्युपगमेन कार्य्यस्य कारणानतिरेकात्। एतच तव वश्य म् ।
12
For Private And Personal