________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०,पाका०]
पराशरमाधवः।
७२१
पार्मराजतताम्राणि पात्राणि स्यात्ममिन्मधु ।
पुष्यधूपसुगन्धादि क्षौमसूत्रञ्च मेक्षणम्" इति ॥ तिला जर्तिला ग्राह्यास्तदसम्भवे ग्राम्याः। जलिलक्षणमुक्तं सत्यव्रतेन,
"जर्तिलास्तु तिलाः प्रोक्ता कृष्णवर्णा वनेभवाः" इति। तेषां प्रशस्तत्वमापस्तम्ब शाह,
"अटव्यां ये समुत्पन्ना अकृष्टफलितास्तथा ।
ते वै श्राद्धे पवित्रास्तु तिलास्ते न तिलास्तिलाः'"-इति ॥ निमन्त्रितत्राहाणानामुपवेशनार्थमासनं सषी। तत्र विशेषो मनुनोकः । “कुतपञ्चाशने दद्यात्" इति। कुतपो नेपालदेशप्रभवमेषादिरोमनिर्मितकम्बलः। तदुक्तं स्मृत्यन्तरे,
"मध्याहः खड्गपात्रञ्च तथा नेपाल कम्बलः । रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥ पापं कुत्मितमित्याहुस्तस्य सन्तापकारणम् ।
अष्टावेते यतस्तस्मात् कुतपा इति विश्रुताः” इति ॥ कांस्यपार्मराजतताम्रपात्राणि भोजनार्थमर्चार्थ चोपकल्यानि । अत्र भोजनार्थं पलाप्रपत्रपात्राण्येवोपकल्यानि न त्वन्यपर्णपात्राणि । तथाचात्रिः,
"न मृण्मयानि कुर्वीत भोजने देवपित्र्ययोः । पालाशेभ्यो विना न स्युः पर्णपात्राणि भोजने"-इति ॥
* ते वै श्राद्धेषु देयाः स्युस्तिलास्ते जर्तिलाः स्मृताः, इति मु० ।
91
For Private And Personal