________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६६६
पराशरमाधवः ।
[३मधाका ।
दाम्भिको वर्धकीभनी त्यतात्मा दारदूषकः ॥ मद्भिश्च निन्दिताचारः स्वकर्मपरिवर्जकः । परिवित्तिः परिवेत्ता भूताचार्यो निराकृति:(१) ।। शूद्राचार्य: सुताचार्यः शूद्राशिव्यस्तु नास्तिकः । दुव्वस्त्रदारकाचार्या मानकृत्तैलिकस्तथा ॥ चोरा वार्धषिका दुष्टाः परखानाञ्च दूषकाः । चतुराश्रमवाह्याश्च सर्वे ते पतिदूषकाः ।। इत्येते लक्षणयुकांस्तांद्विजान नियोजयेत्” इति । विद्यादिगुणयोगेऽप्येतेषां वर्जनीयत्वं ब्रह्माण्डपुराणेऽभिहितम्,
"श्राद्धाईगुणयोगेऽपि नेते जातु कथञ्चन । निमन्त्रणीयाः श्राद्धेषु सम्यक् फलमभीमता"-इति॥ एवं ब्राह्मणान्प्रागेव सम्यक् परीक्ष्य पूर्वेद्युत्रिमन्त्रयीत । तथाच हारीतः। “यत्नेनैवम्बिधान श्राद्धमाचरिष्यन् पूर्वेधुनिमन्त्रयेत्”-इति। असम्भवे परेधुनिमन्त्रयीत । तथाच कूर्म,
"श्वो भविष्यति मे श्राद्धं पूर्वारभिपूजयेत् ।
असम्भवे परेर्युवा यथोक्रलक्षणैर्युतान्" इति ।। देवलोऽपि,
"श्व: काऽस्मीति निश्चित्य दाता विप्रानिमन्त्रयेत्। __* मत्याचार्यो,-इति मु.। (१) निराकृतिः,-"यस्वाधायाग्निमालस्याद्देवादीभिरिएवान् । निरा.
कर्ताऽमरादीनां स विज्ञेयोनिराकृतिः"-. इत्युक्तलक्षणः । अधीतविस्मृत वेदेो वा (६६३ ए.)।
For Private And Personal