________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[३५०,चाका
अत्र मघात्रयोदश्यां श्राद्धे पिण्डनिर्वपणं न कुर्यात्, तस्यां युगादित्वेन पिण्डनिर्वपणनिषेधात् । तथाच पुलस्त्या,
"अयनद्वितये श्राद्धं विषुवद्वितये तथा।
युगादिषु च सर्वासु पिण्डनिर्वपणादृते"--इति ॥ कर्तव्यमित्यध्याहारः। मघाऽन्वितत्वेनापि पिण्डनिर्वपणं नास्ति । तथाचादिपुराणे,
"संक्रान्तावुपवासेन पारणेन च भारत ।
मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यति"-दति ॥ चतुर्दश्यां श्राद्धनिषेधोऽग्यशास्त्रहतविषयः । अपमृत्युहतानान्तु चतई श्यामपि श्राद्धं कार्यम् । तदाह मरीचि,
"विषशास्त्रश्वापदाहितिर्यगब्राह्मणघातिनाम् ।
चतुईयां क्रिया कार्या अन्येषाम्स विगर्हिता" इति । प्रचेता अपि,
"वृक्षारोहणलौशादिविद्युज्जलविषादिभिः ।
नखिदंनिविपनानामेषां शस्ता चतुर्दशी"-इति ।। याज्ञवल्क्योऽपि,
"शस्त्रेण तु इता ये वै तेभ्यस्तत्र प्रदीयते"-इति ॥ अत्र चतईग्या शस्त्रादिहतानामेवेति नियम्यते, न पुनश्चतुईण्यामेवेति। एवञ्च मति, दिनान्तरेऽपि पितामहादिवप्तिमिद्यर्थ महालयश्राद्धं कार्यम् । चतुर्दश्यां महालयश्राद्धस्यैकोदिष्टत्त्वेन विहितत्वात् तेनात्र पितामहादिबनेरभावात् । तस्य चैकोद्दिष्टरूपत्वं सुमन्तुराइ,
"समत्वमागतस्यापि पितुः शस्त्रहतस्य तु ।
For Private And Personal