________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५८
पराशरमाधवः।
[३च.पा.का.।
श्राद्धं नित्यम् । तदाह पितामहः,
"श्रमावास्थाव्यतीपातपौर्ममास्यष्टकासु च ।
विद्वान् श्राद्धमकुर्वाण: प्रायश्चित्तीयते तु मः".-इति ॥ सृद्धिः पुत्रजन्मादिः, तेन तदिशिष्टः कालो लक्ष्यते । कृष्णपक्षोऽपरपक्षः । अयनइयं दक्षिणायनमुत्तरायणञ्च । द्रव्यं कमरमांसादि, ब्राह्मण: श्रुताध्ययनसम्पन्नः, तयोः सम्पत्तिलाभो यस्मिन् काले स तथोकः। विषुवन्मेषतुलासंक्रान्ती। सूर्यसंक्रमः सूर्यस्य राशेराश्यन्तरप्राप्तिः। सूर्यमंक्रमशब्देनैवायनविषुवतोपादाने मिद्धे पृथगुपादानं फलातिशयज्ञापनार्थम्। व्यतीपातोयोगविशेषः, महायतीपातो वा।
"सिंहस्थौ गुरुभौमौ चेन्मेषस्थे च रवौ हि वा। द्वादशी इस्तसंयुका व्यतीपातो महान्हि मः ॥ श्रवणाश्विधनिष्ठाद्रीनागदैवतमस्तकैः । यद्यमा रविवारेण व्यतीपातः स उच्यते"-दति
द्धमनुवचनात् । नागदेवतमन्नेषानक्षत्रं, मस्तकं मृगशिरः । यद्यमा अमावास्या रविवारेण श्रवणादीनामन्यतमेन नक्षत्रेण यता, म व्यतीपात इत्यर्थः । गजच्छायालक्षणं स्मृत्यन्तरे दर्शितम्,
“यदेन्दुः पिढदैवत्ये हंसश्चैव करे स्थितः ।
याम्या तिथिर्भवेत्मा हि गजच्छाया प्रकीर्तिता"-दति ॥ पिटदैवतां मधानक्षत्रं, इंसः सूर्यः, करो इस्तनक्षत्र, याम्या तिथिस्त्रयोदशी । पुराणेऽपि,
"हंसे हस्तम्थिते या तु मघायका त्रयोदशी ।
For Private And Personal