SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६५२ पराशरमाधवः । ३५०,या का । "परिश्रिते* शुचौ देशे दक्षिणाप्रवणे तथा" इति । परिश्रिते परितः प्रच्छादिते, शुचौ गोमयादिनापलिप्ते दक्षिणाप्रवणे दक्षिणोपनते देशे, श्राद्धं कुर्यादित्यर्थः । स्वतोदक्षिणाप्रवणत्वासम्भवे देशस्य यत्नतोदक्षिणप्रवणत्वं कार्यम् । तथाच मनुः, “शुचिं देशं विविकन्तु गोमयेनोपलेपयेत् । दक्षिणप्रवणश्चैव प्रयत्नेनोपपादयेत्” इति ॥ क्रिमिकोटाधुपहतं देशं श्राद्धे विवर्जयेत् । तदाह यमः, "हं क्रिमिहतं क्लिन्न सङ्कीर्णनिष्टगन्धिकम् । देशत्वनिष्टशब्दच वर्जयेच्छाद्धकर्मणि"-दति ॥ लिन मपदम्। सङ्कीर्णमन्यैः सङ्कीर्मम् । मार्कण्डेयोऽपि, "वा जन्तुमयी रूक्षा तितिः मुष्टा तथाऽग्निना । अनिदुरशब्दोग्रा दुर्गन्धिः श्राद्धकर्मणि" इति ॥ कत्रिमादिदेशेष्वपि श्राद्धं न कार्यम् । तदाह शङ्खः, “गोगजाश्वाजष्टेषु कृत्रिमायां तथा भुवि । न कुर्याछामेतेषु पारक्याशुचिभूमिषु”-दति ॥ कृत्रिमायां वेदिकादौ । पारक्यासु परपरिग्टहीतासु । ताश्च सहगोष्ठारामादयः । न पुनस्तीर्थादिस्थानानि । तथाचादिपुराणम्, "अटवी पर्वताः पुण्या नदीतीराणि यानि च । सवाण्यस्वामिकान्याहुन हि तेषु परिग्रहः ॥ वनानि गिरयो नद्यस्तीर्थान्यायतनानि च । देवखातश्च गश्च न स्वामी तेषु विद्यते" इति ॥ * पनिक्षिते, इति सो० ना० । एवं परत्र । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy