________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५०,मा.का.
पराशरमाधवः।
"शालिना शकुभिवाऽपि शाकैवाऽप्यथ निर्बपेत् ।
प्रथमेऽहनि यद्दव्यं तदेव स्थाद्दशाहिकम्” इति ॥ यदा तु दशाइमध्ये दर्शपातस्तदा दर्शएवोत्तरं तन्त्र पिण्डोदकदानरूपं समापयेत् । तदाह सुष्यटन:
"श्राशौचमन्तरा दर्शा यदि स्यात्मर्ववर्णिनः ।
समाप्निं प्रेततन्त्रस्य कुर्युरित्याह गौतमः" इति ॥ भविष्यपुराणेऽपि,
"प्रवृत्ताशौचतन्त्रस्तु यदि दशैं प्रपद्यते ।।
समाप्य चोदकं पिण्डं खानमा समाचरेत्" इति॥ पैठीनमिरपि,
"श्राद्येन्दावेव कर्त्तव्या प्रेतपिण्डोदकक्रिया। दिरैन्दवे तु कुर्वाणे पुनः शावं ममश्रुते"-इति ॥ मातापितविषये तु विशेषो गालवेनोकः,
"पित्रोराशौचमध्ये तु यदि दर्शः समापतेत् ।
तावदेवोत्तरं तन्वं पर्यवस्येत् यहात् परम्" इति ॥ पिचोराशौचमध्ये तु त्रिराचात्परं यदि दर्श: समापतेत्, तदैवोत्तरं तन्त्रं दर्श समापयेत्, नाग्दिर्शपाते। यत्त श्लोकगौतमेनोक्रम्,
"अन्तर्दशाहे दर्श तु तत्र सर्व समापयेत् ।।
पित्रोस्तु यावदाशौचं दद्यात् पिण्डान् जलाञ्जलीन्”-इति॥ तत् चिरात्रादर्वाग्दीपाते वेदितव्यं, अहात्परमिति गालवेन विशेषितत्वात् । पिण्डोदकदानानन्तरं बान्धवैरातुराश्वासनं कार्यम् ।
For Private And Personal