________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३०,या का०]
पराशरमांधवः।
पर
अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा। स्नात्वा सचेलं स्पृष्ट्वाऽग्निं एतं प्राश्य विशुध्यति। इति॥
ज्ञाति मपिण्डव्यतिरितं बन्धु, मपिण्डानुगमनस्य विहितत्वात् । अज्ञानिमबन्धु वा समानोत्कृष्टजातिप्रेतं कामनयाऽनुगम्य सचेलं स्नात्वाऽग्निं स्पृष्ट्वा वृतभुक गुध्यति इत्यर्थः । तथाच याज्ञवल्क्यः,
"अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाऽग्निं तभुक् चिः" इति ॥ कूर्मेऽपि,
"प्रेतीभूतं द्विजं विप्रो योऽनुगच्छेत कामतः । स्नात्वा सचेलं स्पृष्ट्वाऽग्निं तं प्राश्य विशुध्यति"-इति ।। अत्र च विशेषः कश्यपेनोकः,
"अनुगम्य शवं बुध्या नात्वा स्पृष्ठा हुताशनम् ।
मर्पिः प्राश्य पुनः स्नात्वा प्राणायामैर्विशुध्यति"-इति ॥ न च तप्राशनस्य भोजनकार्य बिधानाभोजननिवृत्तिरिति वाच्यम् । तम्य प्रायश्चित्तत्वेन विधानात् । प्राणायामैरिति बहुवचनस्य कपिचलन्यायेन त्रित्वे पर्यवमानात्, त्रिभिः प्राणायामैः शुध्यति,इत्यर्थः ।
निकृष्टजात्यनुगमनाशौचमाह,क्षत्रियं मृतमज्ञानाद् ब्राह्मणेयोऽनुगच्छति । एकाहमशुचिर्भूत्वा पञ्चगव्येन शुध्यति ॥ शवञ्च वैश्यमज्ञानाद्वाह्मणायाऽनुगच्छति । कृत्वाऽऽगाचं दिरावञ्च प्राणायामान् पडाचरेत् ॥
For Private And Personal