________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५०,चाका
पराशरमाधवः।
इ२१
"विवाहोत्सवयज्ञादिष्वन्तरा मृतस्तके ।
घटतमन्नं* परैयं दाढन् भोक्तश्च न स्पृशेत्”-दति ॥ कृतान्नमसूतकिभिर्देयं, सुतकी तु दाहन भोकच न स्पशेदित्यर्थः । यत्तु स्मृत्यन्तरम्,
"द्रव्याणि स्वामिसंबन्धादघानि त्वाचीनि च ।
खामिशुध्यैव शुध्यन्ति वारिणा प्रोक्षितान्यपि"-इति ॥ तदसङ्कल्पितद्रव्यविषयम् । कानिचिदसङ्कल्पितान्यपि द्रव्याणि मवदा शुद्धानि । तथा च मरीचिः,
"लवणे मधुमांसे च पुष्पमूलफलेषु च । शाककाष्ठटणेवा दधिमर्पिःपयासु च ॥ तेलौषध्यजिने चैव पक्कापक्के स्वयं ग्रहः ।
पण्णेषु चैव सर्वेषु नाशौचं मृतसूतके" इति ॥ अनेकाशौचनिमित्तमन्निपाते प्रतिनिमित्तं नैमित्तिकारत्तौ तां निवारयति,
अन्तरा तु दशाहस्य पुनमरणजन्मनी ॥२८॥ तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् । इति ॥
यदा दशाहाशौचकालमध्ये तत्तुल्यस्य ततोऽल्पस्य वाऽऽशौचस्य निमित्त जननमरणे स्थातां, तदा पूर्वप्रवृत्तं तदाशौचं यावदनिर्दशमनिर्गतदशाहं स्यात् विप्रस्तावदेवाशुचिर्भवति न पुनर्मध्योत्पन्नमरणादिनिमित्तकदशाहाद्याशौचवानित्यर्थः । तथा च मनुः,
* शेषमन्नं,-इति पाठान्तरम्।
For Private And Personal