________________
Shri Mahavir Jain Aradhana Kendra
५६२
www.kobatirth.org
पराशरमाधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
[ ३०, चा०का० ।
एवं सर्वत्रानुसन्धेयम् । श्रतएव ब्रह्मपुराणम्, - "ङ्गि - दंष्ट्रि - नखि व्याल- विष-वहि- महाजलैः । सुदूरात् परिहर्त्तव्यः कुर्वन् क्रीड़ां मृतस्तु यः ॥ नागानां विप्रियं कुर्वन् दग्धश्चाप्यथ विद्युता । निग्टहीताश्च ये राजा चोरदोषेण कुचचित् ॥ परदारान् चरन्तश्च रोषात्तत्पतिभिर्हताः । असमानैश्च सङ्कीर्णैश्चण्डालाद्यैश्च विग्रहम् ॥ कृत्वा तैर्निहतास्तद्वचण्डालादीन् समाश्रिताः । क्रोधात् प्रायं विषं वकिं शस्त्रमुद्दन्धनं जलम् ॥ गिरि-वृक्ष-प्रपातञ्च ये कुर्वन्ति नराधमाः । महापातकिनोये च पतितास्ते प्रकीर्त्तिताः ॥
पतितानां न दाहः स्यान्नांत्येष्टिनास्थि- मञ्चयः ।
न वाऽश्रुपातः पिण्डोऽस्य कार्यं श्राद्धादिकं कचित् " - इति ॥ नन्वयं चण्डालादि- हतानामग्नि-संस्कार- निषेधोनाहिताग्निविषयः । श्राहिताग्निविषयत्वे, “श्राहिताग्निमग्निभिर्यज्ञपाचैश्च दहेत्" - इति श्रुतिविहितानियज्ञपात्रादि प्रतिपत्ति-लोप प्रसङ्गादिति । मैवं स्मृत्यन्तरे चण्डालादिहताहिताग्निसंबन्धिनामनीनां यज्ञपात्राणां च प्रतिपत्त्यन्तर- विधानात् ;
For Private And Personal
“वैतानं प्रक्षिपेदप्सु श्रावसथ्यञ्चतुष्पथे । पात्राणि तु दनौ यजमाने वृथामृते । श्रात्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया ॥
तेषामपि तथा गङ्गा-तोये संस्थापनं हितम् ” - इति ।