________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५६.
पराशरमाधवः ।
धा.का.
सप्तमः पिण्डदश्चैषां मापिण्ड्य माप्त पुरुषम्" इति ॥ मनुरपि,
"मपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदक-भावस्तु जन्म-नानोरवेदने"-इति ॥ सत्यं, तथापि पञ्चमादिषु मापिण्ड्यनिवृत्तेर्विकल्पेन स्मृतत्वात् तदनुरोधेनाशौच-सङ्कोच-विधानं विकल्पेन युज्यते । उदाहतश्च गौतम-वचनं, "पिण्ड-निवत्तिः पञ्चमे मतमे वा"-इति । पैठीनसिरपि “चीनतीत्य मात्तः, पञ्चातीत्य पिटतः” इति ।। __ नन्वेवं तईि पक्षमादीनां ममानोदकत्वेन, 'यहात्तुदकदायिनः' - इति त्रिरात्रमाशौचं प्राप्नुयात् । अतः षडात्रादि-विधानमनुपपन्त्रमिति । सत्यं पञ्चमादिषु त्रिरात्राशौचं प्राप्नोति, तथापि विशेषविधानादपोद्यते । मामान्यशास्त्रम्य विशेषशास्त्र-विषयेतरविषयत्वस्य युक्रत्वात् ॥ उनस्य प्रेताशौचस्य क्वचिदपवादमाह,
भृग्वग्नि-मरणे चैव देशान्तर-मृते तथा। वाले प्रेते च सन्यस्ते सद्यः शौचविधीयते॥१०॥
भृगुः प्रपातः, अग्निः प्रमिद्धः । भवग्नि-मरणं प्रमादादिना विना दुर्मरणमात्रोपलक्षणम्, प्रायश्चित्तानुरोधात् । तन्निमित्ते मरणे मति तत्संबन्धिनां सर्वेषां मपिण्डानां सद्यः शौचं न तु दशाहाशौचमिति। तथा च याज्ञवल्क्यः ,
"इतानां नृप-गो-विगैरन्वक्षं चात्मघातिनाम्" इति। नपोऽभिषिक: क्षत्रियः । गोशब्दः टङ्गि-दंश्यादीनां सर्वेषामुप* अच, यद्यपि,-इति भवितुं युक्तम् ।
For Private And Personal