SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५५२ पराशरमाधवः नायं दोषः। विद्यां विविदिषाञ्च विना जीवनार्थमेव केवलमेकदण्डं यो धत्ते तद्विषयत्वात् प्रतिषेधस्य । अतएव सर्वाशीति विशेषितम् । स्मृत्तावपि, - “एकदण्डं समाश्रित्य जीवन्ति वहवो नराः। नरके रौरवे घोरे कर्म-त्यागात् पतन्ति ते" - इति । युक्तश्च नरक-पातः, सत्यपि व्राह्मदण्ड़े पाप-निवर्त्तकानामान्तरदन्डानामभावात्। पाप-निवर्तकत्वञ्च कालिकापुरणे दर्शितम् , - "वैणवा ये स्मृता दन्डा लिङ्गमात्र-प्रवोधकाः। लिङ्गव्यक्तौ हि धार्यास्ते न पुनर्धर्म-हेतवः । कायजा ये बुधैनित्यं नृणां पाप-विभोक्षणात् । जितेन्द्रियै जितक्रोधै र्धा- वै तत्त्वदर्शिभिः" - इति । ये कायजास्त्रयोदन्डास्ते पाप-विभोक्षणाय धार्याः – इत्यन्वयः । नन्वेकदन्ड-त्रिदन्डयोविकल्पः कचित् स्मय॑ते । तत्र, विष्णुवौधायनौ, - “एकदण्डी भवेद्वाऽपि त्रिदण्डो वा मुनिर्भवेत्” – इति । व्यासः, - "त्रिदण्डमेकदण्ड वा व्रतमास्याय तत्त्ववित् । पर्फाटेत् पृथिवी नित्यं वर्षाकाले स्थिरीभवेत्” - इति । शौनकोऽपि । “अथ कषायवासाः सख मा गोपायेति त्रिदण्ड मेकदण्ड वा गृहाति" - इति। आश्वमेधिके भगवद्गवचनम् , - "एकदण्डो त्रिदण्डी वा शिखो मुन्डित एव वा । काषायमात्रसारोऽपि यतिः पूज्यो युधिष्ठिर” – इति। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy