SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५३६ पराशरमाधवः यानि पूर्वोदाहत-वचनानि, तानि क्षत्रिय-वैश्ययोः काषायदण्डनिषेध पराणि। तथाच, मुखजानामिति वचनमुदाहृतम् । वौधायनोऽपि, - "ब्राह्मणानामयं धर्मों यद्विष्णोलिङ्ग-धारणम् । राजन्य-वैश्ययोर्नेति तत्रात्रेय-मुनेर्वचः” – इति॥ परिवाड् वुभूषः सर्वस्वदक्षिणां प्राजापत्यामिष्टि निर्व पत्। तदाह मनुः, - "प्राजापत्यां निरूप्येष्टि सर्ववेदसदक्षिणाम् । आत्मन्यग्नोन समारोप्य ब्राह्मणः प्रब्रजेद् गृहातू" -- इति ॥ यद्वा। आग्नेयोमिष्टि कृया॑त् । तदुक्त श्रुत्या। “अथैके प्रजापत्यामिष्टि कुर्वन्ति, तथा न कुर्यात् आग्नेयोमेव कुर्यादग्निहिं प्राणः प्राणमेवैतया करोति” – इति। कूर्मपुराणऽपि, “प्रजापत्यां निरूप्येष्टिमाग्नेयोमथवा पुनः । अन्तः पक्वकषायोऽसौ ब्रह्माश्रममुपाश्रयेत्” - इति ॥ प्राजापत्येष्टिराहिताग्निविषया, 'अग्नीन् समारोप्य' - इत्यग्निवहुत्वाभिधानात्। आग्नेयो त्वनाहिताग्निविषया, तद्वाक्यशेषे 'अग्निमाजिघ्रत्, - इत्येकाग्न्यभिधानात् । सा चेष्टिः श्राद्धादिपुरःसरं प्रकत्तेव्या। तथाच नृसिंहपुराणम् , - "एवं वनाश्रमे तिष्ठन तपसादग्धकिल्विषः । चतुर्थमाश्रमं गच्छेत् सन्न्यस्य विधिना द्विजः ॥ * कूर्मपुराणेऽपि,- इत्यारभ्य, एतदन्तो अन्योनान्ति मु० पुस्तके । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy