________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४९०
पराशरमाधवः होमाकरणे तु ना भार्यात्वम् । अतएव वशिष्ठबौधायनौ,
"वलादपहृता कन्या मन्त्रर्य दिन संस्कृता।।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा" - इति । तस्माद् गन्धर्वादिष्वपि सप्तपद्यमिक्रमणसम्भवादस्ति भार्यात्वम् । ब्राह्मयादिषु विवाहेषु यद्गदानमुक्तं तत्सकृदेव । तथा च याज्ञवल्क्यः ,
"सकृत् प्रदीयते कन्या हरंस्तां चौरदण्डमा"- इति । मुनुरपि,
"सकृदंशो निपतति सकृत् कन्या प्रदीयते।
सकृदाह ददानीति त्रीण्येतानि सकृत् सकृत् '- इति । एतच्चादुष्टवराभिप्रायम् । यदाह नारदः,
"दत्वा कान्ताय यः कन्यां वराय न ददाति ताम् ।
अदुष्टश्चेद् वरो राज्ञा स दण्ड्यस्तत्र चौरवत्”- इति । किमयमुत्सर्गः ? नैत्याह याज्ञवल्क्यः ,
“दत्तामपि हरेत् पूर्वाच्छयांश्चेदर आव्रजेत्"- इति । एतद्वाग्दानाभिप्रायम् । यस्मै वाचा दता, ततोऽन्यश्चेत् प्रशस्ततरो लभ्यते, ततस्तस्मै देया, न तु दुष्टाय पूर्वस्मै। तथा च गौतमः,- "प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्"- इति। वरदोषास्तु कात्यायनेनोक्ताः,
“उन्मत्ताः पतितः कुष्ठी तथा षण्डः सगोत्रजः। चक्षुः श्रोत्र-विहीनश्च तथाऽपस्मार दूषितः ॥ वर-दोषास्तथैवेते कन्या-दोषाः प्रकीर्तिताः" - इति ।
For Private And Personal