________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,या का०1]
पराशरमाधवः ।
योगौत्र-प्रवरोः पर्युदास-निमित्तत्वं शङ्कनी, प्रत्येकं दोषाभिधानात् । तदाह बौधायनः,-"मगोत्रां चेदमत्योपयच्छेन्मानवदेनां विभयात्" इति । शातातपोऽपि,
"परिणीय मगोत्रान्तु समान-प्रवरां तथा ।
कृत्वा तस्याः समुत्मगै तप्तकच्छ* विशोधनम्" इति । आपस्तम्बः,
"समान-गोत्र-प्रवरां कन्यामूदोपगम्य च ।
तस्यामुत्पाद्य मन्तानं । ब्रह्माण्यादेव हीयते" इति । इत्थं कन्या लक्षणं परीक्ष्य कुलमपि परीक्षणीयम् । अतएव मनुः,
"महान्यपि समृद्धवानि गोऽजाविधनधान्यतः । स्त्रीसंबन्धे दशेमानि कुलानि परिवर्जयेत् ॥ हीनक्रियं निष्पुरुषं निश्छन्दोरोमगार्शसम् ।
क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च"-दति । हीन क्रियं यागादि-किया-रहितम्। निष्पुरुष स्त्रीमावशेषम् । निश्छन्दोऽध्ययन-वर्जितम्। यमोऽपि,
"चतुर्दश कुलानीमान्यविवाह्यानि निर्दिशेत् । अनायं ब्राह्मणानाम्हविजाञ्चैव वर्जयेत्॥ अत्युच्चमतिहस्वञ्च प्रतिवर्णञ्च वर्जयेत् । हीनाङ्गमतिरिकाङ्गमामयावि-कुलानि च ॥
* यतिकृच्छ्र,--इति मु० पुस्तके पाठः। + चण्डालं,-इति स० से शा० पुस्तकेषु पाठः । दशैतानि,-इति शा० स० पुस्तकयोः पाठः ।
For Private And Personal