________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०,या का० । पराभरमाधवः।
४३६ "मकृत् संस्कृत-मस्कारा मीमन्तेन दिजस्त्रियः"-इति । देवलोऽपि,
“मकृत् संस्कृता या नारी सर्वगर्भषु संस्कृता"-दति । गर्भ-संस्कार-पने तु प्रतिगर्भमावर्त्तनीयम् । तथा च विष्णुः,
"सीमन्तोन्नयनं कर्म न स्त्री-संस्कारय्यते ।
केचिद्गर्भस्य संस्काराग) गर्भ प्रयुञ्जते"-इति । अनयोः पक्षयोर्वथाटा व्यवस्था। अकृत-सीमन्तायाः प्रसवे सत्यव्रताह
"स्त्री यद्यकृत-सीमन्ता प्रसूयेत कथञ्चन ।
ग्टहीत-पुत्रा विधिवत्पुनः संस्कारमईति" इति। जातकर्मणः कालोयाज्ञवल्क्येन दर्शितः,-"मास्येते जातकर्म च" इति । एते भागते जातहति यावत् । विष्णुरपि,___ "जातकर्म ततः कुर्यात् पुत्रे जाते यथोदितम्" इति।
ख-ग्टह्ये,-इति शेषः । तच स्नानानन्तरं कार्यम्। तथा च संवतः,
"जाते पुत्रे पितुः स्नानं सचेलन्तु विधीयते” इति । जातकर्म च नाभि-वर्द्धनात् प्रागेव कार्यम् । तदाह हारीतः,
"प्राङ्नाभिवर्द्धनात् पुंमोजातकर्म विधीयते ।
मन्त्रवत् प्राशनञ्चास्य हिरण्य-मधु-मर्पिषाम्" इति । वर्द्धनं छेदनम् । न चाशौच-शंकया कर्मानधिकारदति वाच्चं माभि-छेदात् प्रागशौचाभावात्। तदाह जैमिनिः,
"यावत्र छिद्यते नालं तावनाप्नोति सूतकम्।
For Private And Personal