________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११.या०का]
पराशरमाधवः।
११७
लाभकर्मादीनि वाणिज्यान्तानि, तानि सर्वाणि वैश्यवृत्तिः वैश्यस्य जीवनहेतुः, इत्यर्थः । तदुक्तं मार्कण्डेये,
"दानमध्ययनं यज्ञोवैश्यस्यापि त्रिधैव सः ।
वाणिज्यं पारापाल्यञ्च कृषिश्चैवास्य जीविका" इति । अर्घ-विज्ञानादयो वैश्यधर्मत्वेन द्रष्टव्याः । अतएव मनुना वैश्यधर्मेषु पठिता:
"वैश्यस्तु कृत-संस्कारः कृत्वा दार-परिग्रहम् । वार्तायां नित्ययुक्तः स्यात् पशूनाञ्चैव रक्षणे॥ प्रजापतिर्हि वैश्याय सृष्टा परिददे पशून्। न च वैश्यस्य कामः स्यान रक्षेयं पभूनिति ॥ वैश्य चेच्छति नान्येन रक्षितव्याः कथञ्चन । मणि-मुका-प्रवालानां लौहानां तान्तवस्य च ॥ गन्धानाच रसानाञ्च विद्यादर्घवलावलम् । वीजानामुप्तिविच स्थात् क्षेत्र-दोष-गुणस्य च ॥ मान-योगांश्च जानीयात्तुला-योगांश सर्वतः । मारामारञ्च भाण्डानां देशानाञ्च गुणगुणम् ।। लाभालाभच्च पण्यानां पशूनाञ्च विवर्द्धनम् । भृत्यानाञ्च मतिं विद्याभाषाश्च विविधानृणाम् । द्रव्याणं स्थान-योगांश्च क्रय विक्रयमेवच ॥ धर्मेण च द्रव्य-वृद्धावातिष्ठानमुत्तमम् ।
दद्याच्च सर्वभूतानामन्नमेव प्रयत्नतः” इति । कृषि-वाणिज्य-गोरक्षाः वा शब्देनोच्यन्ते, मानयोगा प्रचलि
53
For Private And Personal