________________
Shri Mahavir Jain Aradhana Kendra
CE
[१०, या का० ।
शस्त्रपाणिवेन च युद्धोपकरणानि सर्व्वाण्युपलच्यन्ते । तानि च
शान्तिपर्व्वणि दर्शितानि, -
विष्णुः, -
www.kobatirth.org
पराशर माधवः ।
" यष्टयस्तोमाराः खगाः निशिताश्च परश्वधा: ।
फलकान्यथ वर्माणि परिकल्प्यान्यनेकशः " ॥
'प्रदण्डवान्' - दूत्यनेन चौरादि - शिक्षा विवचिता । यद्यप्येषा पूर्व्ववचन एवोका, तथापि तत्र प्राधान्येन प्रतिपादिता, श्रत्र तु प्रजारक्षण-साधनत्वेनेति न पौनरुक्त्यम् । दण्ड-प्रकारमाह मनुः, -
“अनुबन्धं परीक्ष्याथ देश - कालौ च तत्त्वतः । सापराधमथालोच्य दण्डं दण्डयेषु पातयेत्" |
बृहस्पतिरपि -
Acharya Shri Kailashsagarsuri Gyanmandir
" श्राग:व्वपि तथाऽन्येषु ज्ञात्वा जातिं धनं वयः । दण्डन्तु प्रणयेद्राजा सामन्त- ब्राह्मणैः सह” – इति ।
तथा कात्यायनः, -
" वा विम्बधः स्वकश्चैव चतुर्द्धा कल्पितेादमः | पुरुपे दोष-विभवं ज्ञात्वा संपरिकल्पयेत् ॥ गुरुन् पुरोहितान् विप्रान् वाग्दण्डेनैव दण्डयेत् । विवादिनेानरांश्चान्यान् दोषिणोऽर्थेन दण्डयेत् ॥ महापराध - युक्रांच बध - दण्डेन दण्डयेत्” ।
"मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक् तपखिनाम् । यथोक्तं तस्य तत्कुर्य्यरनुकं साधु- कल्पितम् ॥ अधार्मिकं त्रिभिन्यायैर्निगृह्णीयात् प्रयत्नतः ।
For Private And Personal