________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या का
पराशरमाधवः ।
अतः श्राद्ध-न्यायेनातिथ्येऽपि कर्मणि गोत्रादि-परीक्षा प्राप्ती तत् निवार्यते। गोत्रं वंश-प्रवर्तक-महर्षि-सम्बन्धः । चरणमाचारः । शाखा-विशेषः स्वाध्यायः । श्रुतं व्याकरण-मीमांसादि । एतद्देश-नामा दीनामुपलक्षणम्। श्रतएव यमः,
“न पृच्छेगोत्र-चरणे देशं नाम कुलं श्रुतम् ।
अध्वनोऽप्यागतं विप्रं भोजनार्थमुपस्थितम्'-दति । न केवलं गोत्र-प्रनादि-वर्जन, किन्तईि देवता-बुद्धिपि कर्त्तव्या। सदुकं शातातपेन,
"चित्ते विभावयेत्तस्मिन् व्यासः खयमुपागतः"*-इति । विष्णुपुराणेऽपि,
"खाध्याय-गोत्र-चरणमटष्ट्वा च तथा कुलम् ।
हिरण्यगर्भ-बुद्ध्या तं मन्येताभ्यागतं ग्टही"-इति । देवता-बुद्धि-विषयत्वे हेतुः सर्व-देवमयत्वम्। तच्च पुराणमारे दर्भितम्,
"धाता प्रजापतिः शक्रोवहिर्वसुगणोयमः ।
प्रविश्यातिथिमेते वै भुञ्जतेऽनं द्विजोत्तम"-इति । गोत्रादि-प्रो फलाभावो बौधायनेन दर्शितः,
"देशं नाम कुलं विद्यां स्पष्वा योऽनं प्रयच्छति । न म तत्फलमानोति दवा खगें न गच्छति" इति ।
* व्यासं खयमुपस्थितम् ,-इति मु० पुस्तके पाठः । + प्रविश्यातिथिमेवैते,-इति मु. पुस्तके पाठः।
For Private And Personal