________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१२
पराशरमाधवः।
[१०,०,का।
"कालाच तरुणा वृद्धा नर-नारी नपुंसकाः । खात्वा माघे भे तौर्थे प्राप्नुवन्तौमितं फलम् ॥ माघे मास्युषसि स्नात्वा विष्णु-लोकं स गच्छति"--इति ॥
॥०॥ इति काम्य-स्नानम् ॥ ॥
अथ मलापकर्षण-खानम्। तत्र वामनपुराणम,
"नाभ्यङ्गमर्के न च भूमिपुत्रे तौरं च शुक्रे च कुजे च मांसम् । बुधे च योषित्परिवर्जनौया
शेषेषु मर्केषु सदैव कुर्यात्”-दति । ज्योतिःशास्त्रे,
“मन्तापः कान्ति* रल्यायुधनं निर्धनता तथा । अनारोग्यं सर्व कामाः अभ्यङ्गागास्करादिषु"-इति ।
मनुरपि,
"पक्षादौ च रवी षष्ट्यां रिकायाञ्च तथा तियौ ।
तेलेनाभ्यज्यमानस्तु धनायुभ्या विहीयते"-इति गोऽपि,
"पञ्चदश्यां चतुर्दश्यामष्टम्यां रवि-संक्रमे । द्वादश्यां सप्तमौ-षट्योः तैल-स्प विवर्जयेत्” इति ।
* सन्तापशान्ति, इति मु• पुस्तके पाठः।
For Private And Personal