________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
१.,पाका ।
प्रायश्चित्तं तथाऽऽचारः, श्रौत-धर्फतथेक्षणात् । श्रौत-धोऽग्रिहोत्रादिराचारस्तदनुष्ठितिः । अयथाविध्यनुष्ठाने प्रायश्चित्तं श्रुतौ श्रुतम् । कल्प-सूत्र-कृतः श्रौते* प्रायश्चित्तमनुष्ठितिम् । असचयन्नुभे एव, व्यवहारन्तु(ए) नाबुवन् । तहदेवायमाचार्य: पर-लोक-प्रसाधनम् । स्मात्तं धम्मै विवक्षुः मन् काण्डदय()मवाचत । (१)ननु चोदनयागम्य व्यवहारेऽपि धर्मता,अस्तीति चेदनुष्ठातुलोकेऽस्मिन्नुपयुज्यते ।
* सूत्रे, इति मु. पस्तकयाठः ।
प्रधानकम् ,--इति मु. पुस्तकपाठः।
न, तत्र चोदनागम्ये, -इति मु. पुस्तकपाठः। $ चेदस्तु सा तु लेाके, इति मु. पुस्तकमाठः ।
"विनानार्थे ऽवसन्देहेहरणं हार उच्यते । नाना-सन्देशहरमात् व्यवहार इति स्मृतः” इत्याद्युक्तो भाषोत्तरक्रियानिर्णयाख्या चतुष्पात् व्यवहारः। याचार काण्डं प्रायश्चित्तकाण्डव । शकते नन्विति । चोदनयागम्ये इति हेतुगर्भविशेषणं । “चोदनालक्षणोऽर्थी धम्मः” (मी०१,१,२) जैमिनिसूत्रात् चोदनागम्याधस्यैव धर्मत्वावगतेयवहारस्यापि तथात्वात् तदकथनादाचार्य्यस्य न्यूनत्वमिति पूर्वपक्षार्थः । उत्तरमाह अनुष्ठातुरिति । तथाच पारलौकिकफलकधर्मस्यात्र विवक्षितत्वात् व्यवहारस्य चैहिकफलकत्वात्तदकीर्तनेपि न न्यूनत्वमिति भावः। ऐहिकमपि फलं व्यवहारानुष्ठातुवादिनः प्रतिवादिनच न तु व्यवहारबरा इति बोध्यं ।
For Private And Personal