SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [१ययाला. मनियमः ,-इत्यपरः पूर्वपक्षः । 'यवाग्वा'- इति हतीयाश्रुत्या(१) होम-माधनत्वावगमादसति च द्रव्ये होमानिष्पत्तेराद् यवागू-पाकः पूर्वभावी, इति सिद्धान्तः। एवमत्रापि स्नानस्य शुद्धि-हेतुत्वाछुद्धस्यैव सन्ध्या-बन्दनाधिकारित्वात् स्वानं पूर्वभावि, इति द्रष्टव्यम्(२) । तत्र, स्नानं तत्पूर्व-भाविनां ब्रह्ममुहीत्थान-हितचिन्तनादौनां सर्वेषामुपलक्षणम् । तत्र याज्ञवल्क्यः, "ब्राह्म मुहर्ने उत्थाय चिन्तयेदात्मनोहितम् । धर्मार्थकामान् खे काले यथाशक्ति न हापयेत्" इति । मनुरपि, "बाह्य मुहर्ने बुध्येत धर्मार्थाननुचिन्तयेत् । काय-क्लेशांश्च तन्मूलान् वेद-तत्त्वार्थमेव च"-इति । * यथापाठं क्रमनियमः,-इति पाठी भवितुं युक्तः । + पूर्व पक्षः, -इति मु० पुस्तके पाठः । + अतरवमत्रापि, इति मु० पुस्तके पाठः । तिच,-इति मु० पुस्तके पाठः। (१) तथा चक्तिम् । “श्रुति द्वितीया क्षमता च लिङ्ग वाक्यं पदान्येव तु संहतानि । सा प्रक्रिया या कथमित्यपेक्षा स्थानं क्रमायोगवलं समाख्या" इति । द्वितीयापदं कारकविभक्त्युपलक्षणं सर्वासामेव कारकविभक्तीनां प्रकृत्यान्वितखार्थबोधने न्यानपेक्षत्वस्य तुल्यत्यात्-इति वाचस्पतिमिश्राः। उदाहरणान्येषां मीमांसा-टतीये इश्व्यानि । तथा चार्यक्रमादनुष्ठानमितिभावः । क्रमश्च घडिबधः, "श्रुत्यर्थपठनस्थानमुख्यप्रावर्तिकाः क्रमाः" इत्युकः । उदाहरणानि चैषां मीमासापक्षमाध्याये अश्यानि। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy